पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४९१
संस्काररत्नमाला
( विवाह आशौचपाते निर्णयः )
 

 आरम्भाभावेऽप्यग्रे मुहूर्तान्तरालाभे सामायां च कृतायां सूतकिनोऽप्यधिकारोपायमाह पारिजाते विष्णुः--

"अनारब्धविशुद्ध्यर्थं कू[१]ष्माण्डैर्जुहुयाद्घृतम् ।
गां दद्यात्पञ्चगव्याशी ततः शुध्यति सूतकी" इति ॥

 अनारब्धविशुद्ध्यर्थमित्यनेनैव सिद्धे ततः शुध्यतीति पुनर्वचनमतिसंकटे विवाहाद्युपयोगिपाकपरिवेषणादावपि शुद्धिज्ञापनार्थमिति नवीनाः । सूतकीति जननाशौचवन्तं प्रत्येवेदं प्रवर्तत इत्यपि केचिन्नवीनाः ।

 संग्रहे--

"संकटे समनुप्राप्ते सूतके समुपस्थिते ।
कूश्मा(ष्मा)ण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् ॥
चूडोपनयनोद्वाहप्रतिष्ठादिकमा[२]चरेत् ।
यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रिया" इति ॥

 एवं शुद्धिपूर्वकविवाहाद्यनुष्ठाने तदङ्गत्वेन संकल्पितान्नभोजने न दोष इत्याह बृहस्पतिः--

"विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके ।
पूर्वसंकल्पितान्नेषु न दोषः परिकीर्तितः" इति ॥

 मृतकसूतकमध्ये विवाहाद्यनुष्ठान उक्तशुद्धिपूर्वकमारब्ध इति पूर्वार्धार्थः ।

 नान्दीश्राद्धोत्तरं सूतकादौ विवाहाद्यारम्भोत्तरमपि संकल्पितान्ने विशेषः

षट्त्रिंशन्मते--

"विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके ।
परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः" इति ॥

 परैरसगोत्रैः ।

 स्मृतिकौमुद्यामपि--

"विवाहोत्सवयज्ञेषु आरब्धे सूतकं यदि ।
साङ्गं तत्कर्म कर्तव्यमन्नदानादिकं परैः" इति ॥

 पूर्वसंकल्पितान्नभोजनसमये सूतकप्राप्तौ विशेषः षट्त्रिंशन्मते--

"भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः" इति ॥

 भोक्तृभिर्भुक्तशेषस्त्याज्यः पक्वशेषः सूतकिभिर्भोक्तव्य इत्याशयः ।



  1. क. ग. ङ. कूश्माण्डै ।
  2. ङ. मारभेत् ।