पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४५९
संस्काररत्नमाला
( विवाहे मासादिनिर्णयः )
 

 अत्र यद्यपि शेषा निन्दितास्तथाऽपि भानोरार्द्राप्रवेशनादिति पुनःश्रुत्याऽऽषाढोऽभ्यनुज्ञात इति नवीनाः । अत्र च विधिनिषेधाः सौरमासाभिप्रायेण ।

 यथोक्तं गर्गेण--

"सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः" इति ।

 कश्यपेन चान्द्रमानमप्युक्तम्--

"उपवासव्रतोद्वाहयात्राक्षौरोपनायनम् ।
तिथिवर्षादिलिखितं चान्द्रमानेन गृह्यते" इति ॥

 इतरे चैत्राषाढश्रावणभाद्रपदाश्विनपोषाः ।

 ज्योतिष्प्रकाशे व्यासः--

"माघफाल्गुनवैशाखे य[१]द्यूढा मार्गशीर्षके ।
ज्येष्ठे चाऽऽषाढमासे च सुभगा वित्तसंयुता ॥
श्रावणे वाऽपि पौषे वा कन्या भाद्रपदे तथा ।
चैत्राश्वयुक्कार्तिकेषु याति [२]वैधव्यतां ध्रुवम्" इति ॥

 पृथ्वीचन्द्रोदये भरद्वाजः--

"माघफाल्गुनवैशाखज्येष्ठाषाढमृगाभिधाः ।
षडेते पूजिता मासाश्चातुर्वर्ण्यस्य नित्यशः" इति ॥

 अत्र विहितप्रतिषिद्धानामाषाढादीनां व्यवस्थामाह मदनरत्ने वसिष्ठः--

"पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात् ।
प्रशस्तमाषाढकृतं विवाहं वदन्ति गर्गा मिथुनस्थितेऽर्के" इति ॥

 देशाचाराद्व्यवस्था ।

आपस्तम्बः--

"सर्व ऋतवो विवाहस्य शैशिरौ मासौ
परिहाप्योत्तमं च नैदाघम्" इति ।

 शैशिरौ मासौ माघफाल्गुनौ । नैदाघ उत्तमो मास आषाढः । एतद्वर्जं नव मासा मुख्यः काल इति सुदर्शनभाष्येऽण्डविलायां ब्रह्मविद्यातीर्थैश्चोक्तम् ।

 बौधायनसूत्रेऽपि--

"सर्व मासा विवाहस्य शुचितपस्तपस्यवर्जमित्येके" इति ।

 शुचिराषाढः । तपा माघः । तपस्यः फाल्गुनः । अत्र स्मृत्युक्तानां



  1. ख यदव्यढा ।
  2. स्वार्थष्यञन्तात्तल् ।