पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४४१
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, विश्वामित्राः (५))
 

 कामकायना[१] देवश्रवसा दैवतरसाः श्रीमता ज्यामकायनाः ।

इति कामकायनाः । श्रीमता वा ।

 तेषां त्रयः । वैश्वामित्रदैवश्रवसदैवतरसेति ।

 अजा भार्गमित्रा माधुन्छन्दसाः । इत्यजाः ।

 तेषां त्रयः । वैश्वामित्रमाधुच्छन्दसाजेति ।

 कता औदुम्बरयः शैशिरयस्तैकायनाः स्तोकायनयस्ता[२]र्श्यायनयः कात्यायनयः करीराभयो लावकयाः शालङ्कायना मौञ्जहायना[३] गाङ्गायनयः कालयो वेदमानयो गो[४]दायनयो मोदायनयो वेदायनयो वैनायनयो[५] रामणयो रातकयो मौञ्जायनयः ।

इति कताः ।

 तेषां त्रयः । वैश्वामित्रकात्यात्कीलेति, वैश्वामित्रकात्याक्षिलेति वा ।

 धनंजयाः पार्थिवा बन्धुला मन्दकाः पाणिलाश्चैत्रेयाः परिकुरयः ।

इति धनंजयाः ।

 तेषां त्रयः। वैश्वामित्रमाधुच्छन्दसधानंजय्येति । वैश्वामित्रमाधुच्छन्दसाघमर्षणेति वा ।

 अघमर्षणानां त्रयः । वैश्वामित्राघमर्षणकौशिकेति ।

 पूरणानां परिधापयन्तानां च द्वौ, वैश्वामित्रपौरणेति । त्रयो वा, वैश्वामित्रदैवरातपौरणेति ।

 इन्द्रकु(कौ)शिकानां द्वौ । वैश्वामित्रैन्द्रकौशिकेति ।

 क्वचिदन्येऽप्येकादशोक्ताः । आश्मरथ्याः साहुला गाथिना वैणवा हिरण्यरेतसः सुवर्णरेतसः कपोतरेतसः शालङ्कायना घृतकौशिकाः कथका रोहिणाश्चेति ।

 आश्मरथ्या घोटमुखाः कामुकायनाः कामलायना बन्धुलाः पाणिनयो[६] नैतुलाङ्गुलयः कौशिकाः ।

 इत्याश्मरथ्याः । कुशिका इति केचित् । अजा इत्यन्ये ।

 तेषां त्रयः । वैश्वामित्राश्मरथ्यवा[७]धूलेति ।



  1. ग. ना देव ।
  2. ख. स्तार्प्स्याय । ग. स्तार्क्ष्याय । ड. स्तार्प्त्स्याय ।
  3. ड. ना गङ्गा ।
  4. ड. गोदन ।
  5. ड. यो रात ।
  6. ड. यो नेतु ।
  7. ख. ड. वागुले ।