पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अध्येतृधर्माः]
३२१
संस्काररत्नमाला ।

योगे" इति सूत्रेणात्यन्तसंयोगे द्वितीया, तेन कृत्स्नां रात्रिं तिष्ठेदित्यर्थः सिद्धो भवति । अशक्तावास्ते । अत्रापि वाग्यत एतां रात्रिमित्यनुवर्तते । मुखं विवेष्ट्येति वचनान्मुखस्यैव विवेष्टनं न तु शिरसोऽपि । षट्तयमित्यत्र संख्याया अवयवे तयप् । एवं सप्ततयमित्यत्रापि । महानग्न्या वत्सतरी कुमारी वा । वत्सं महानग्न्यां चेत्येतावतैव सिद्धे महानग्न्या सप्तमीमिति वचनं षट्तयपक्षे महानग्न्याया एवाभाव इति प्रदर्शनार्थम् । आदितः क्रमेण । अभ्यभिमुखं संमुखमिति यावत् । एनमिति शेषः । अर्थादेव क्रमे सिद्ध इदं वचनमश्मादिषूत्तरेषु पदार्थेषु क्रमनियमो नेति प्रदर्शनार्थम् । अष्टाङ्गमैथुनत्यागो ब्रह्मचर्यं तदाचरन्न नक्तं भुञ्जीतेत्यादिधर्माननुतिष्ठेत् । नित्यग्रहणाद्यदा कदाचिदशक्तिवशेन भोजने न दोष इति गम्यते । नित्यं नक्तं यदि भुञ्जीत तदा दर्भोल्मुकैरुपर्यवज्वाल्य भुञ्जीत । न मृन्मयं प्रतिधयीत मृन्मयपात्रेण जलपानं न कुर्यात् । न स्त्रिया न शूद्रेण संभाषेत । न स्त्रिया शूद्रेण च संभाषेतेत्येकेन नञैव सिद्धौ द्वितीयनञो वचनादेवं ज्ञायतेऽन्यत्र स्त्रिया सह कदाचित्संभाषणे नातीव दोषः । अत्र तु कदाचिदपि स्त्रियाऽपि सह भाषणं नैव कार्यमिति । चक्रीवद्गर्दभादि नाऽऽरोहेत् । सामान्यनिषेधादेवात्रापि निषेधे सिद्धेऽत्र वचनं कर्माङ्गत्वार्थं, तेन भ्रान्त्यादिना गर्दभाद्यारोहणे गदर्भाद्यारोहणनिमित्तकप्रायश्चित्तेन सह कर्माङ्गलोपप्रायश्चित्तमप्यत्र भवति । एवमन्यत्रापि । समाजो जनसमूहः । अपपात्राश्चण्डालाः । तानपिनेक्षेत । हर्म्याणि गृहाणि नेक्षेत । न च शवमीक्षेत । न स्नायादित्यनेन निमज्जनरूपस्नाननिषेधः । पर्वाणि पौर्णमास्यमावास्यादीनि । संवेशनं निद्रा ।एतस्मिन्नेव वत्सरेऽधीयीत । यस्मिन्संवत्सर एतद्व्रतमारब्धं तस्मिन्नेव संवत्सरेऽनुवाकादीनामध्ययनं कर्तव्यमित्यर्थः । एतद्व्रतं यावदध्ययनं तावत्पर्यन्तं कर्तव्यम् । पुनःशब्दादेतस्मिन्नेव वत्सरे कालान्तरे पुनरेतदध्ययने यावदध्ययनं व्रतं कर्तव्यम् । अध्ययने कृत्स्ने कृते मध्ये विरामे न व्रतम् । किं तु, अध्ययनसमानकालिकमेव व्रतमिति । संवत्सरे पर्यवेते गते । आवृत्तैर्विपरीतैः । स्वाध्यायमधीत्यत्र नित्यशब्दोऽन्वेति । स्वाध्याये नित्यं सर्वदा ग्रहणधारणाध्ययनयोर्वक्ष्यमाणा धर्मा भवन्ति । नानुत्सृष्टाध्यायोऽधीयीतेति । उत्सर्जनोत्तरमेवाध्ययनमेतस्य कर्तव्यं न तु तत्पूर्वमुपाकर्मणि कृतेऽपीत्यर्थः । उत्सर्जनोत्तरं यावदुपाकर्म तावदनध्यायसत्त्वेऽपि वचनादध्ययनम् । अथवा नोत्सृष्टोऽनुत्सृष्टः । अध्यायो वेदः । अनुत्सृष्ट उत्सर्जनविधिनाऽनुत्सृष्टोऽध्याय एतद्व्यतिरिक्तो वेदो येन सोऽनुत्सृष्टाध्यायः । एतादृशः सन्नाधीयीतेति । एतद्व्यतिरिक्तवेदभागस्योत्सर्जने जात एवैतदध्ययनं कर्तव्यमिति । नक्तं रात्रौ । अभि


४१