पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१८
[अध्येतृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

 काण्डादीनां समाप्तौ विरामकालाः क्रमाद्दशादिमात्रा भवेयुः । काण्डान्ते यथा--जनदुस्रियासु । प्रश्नान्ते यथा--कल्पयाति । अनुवाकान्ते यथा--पशून्पाहि । ग्रन्थानां समाप्तौ विरामे तत्काण्डविरामस्त्रिगुणः कालस्त्रिंशन्मात्र इत्यर्थः । यथा समुद्रो बन्धुः । येभ्यश्चैनत्प्राहुः । ओम्, इति ।

 सर्वसंमतशिक्षायामपि--

"समाप्तावनुवाकस्य मात्राणां पञ्चकं स्मृतम् ।
अष्टौ दशेति विज्ञेयं प्रश्ने काण्डे यथाक्रमम् ॥
तन्त्राणां तु समाप्तौ तत्त्रिगुणः काल इष्यते ।
वेदस्योपक्रमे विद्वानवसानेऽप्यतन्द्रितः ॥
उच्चरेत्प्रणवं ब्रह्म रक्षायै छन्दसां स्फुटम् ।
आदावनुक्ते स्रवति परस्ताच्च विशीर्यते ॥
प्रारम्भकश्चतुर्मात्रो वेदस्थः स्यात्तदर्धकः ।
अध्ययनानुवाकान्त्यः कर्माद्यश्च त्रिमात्रकः ॥
प्रारम्भाद्याः क्रमान्नादा मात्राणुद्व्यणुमात्रिकाः ।
वेदारम्भे तु यो नादो मकारो मात्रिको भवेत्" इति ॥

 तन्त्रं ग्रन्थः । स्रवति च्यवते । विशीर्यत इत्यत्र वेद इति शेषः ।

 कारीर्याद्यध्ययने व्रतविशेषः काण्डानुक्रमणिकायाम्--

"अक्षारालवणं भूमौ मुखेन पशुवद्द्विजः ।
चतूरात्रं तु भुञ्जीत कारीर्यध्ययने व्रतम् ॥
कारीरीव्रतवच्चापि कलाव्रतमिहोच्यते ।
न तत्र पशुवद्भुञ्ज्यान्न च भूमाविति स्थितिः ॥
कलाव्रतं तु यत्प्रोक्तमग्निकाण्डे तदुच्यते ।
सावित्रेभ्यः प्रभृत्यूर्ध्वमौ(मो)षध्यनुवाकादिति ।
समित्कलापं त्र्यहमाहरन्ति [च] मृगारेष्ट्याम्" इति ॥

 कारीर्यो मारुतमसि मरुतामोज इत्यादयश्चत्वारोऽनुवाकास्तदध्ययन एतद्व्रतं भवतीत्यर्थः । कारीरीव्रतवदेव कलाव्रतं कलासंज्ञकं व्रतं यदुक्तं तदग्निकाण्डेऽग्निकाण्डाध्ययने भवति । अनेन सर्वस्मिन्नप्यग्निकाण्डे प्राप्तौ नियममाह--सावित्रेभ्य इत्यनेन । सावित्राः, युञ्जानः प्रथमं मन इत्याद्या अष्टौ मन्त्रास्तेभ्य आरभ्य या जाता ओषधय इत्यनुवाकपर्यन्तानामध्ययन एतद्व्रतं भवति । मृगारेष्टिः, अग्नेर्मन्व इत्यनुवाकस्तस्याध्ययन इत्यर्थः ।