पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
[स्वस्तिवाचनावश्यकता]
भट्टगोपीनाथदीक्षितविरचिता--

स्वस्तिवाचनम् ।

 अथ स्वस्तिवाचनम् । व्यासः--

"संपूज्य गन्धमाल्याद्यैर्ब्राह्मणान्स्वस्ति वाचयेत् ।
धर्मकर्मणि माङ्गल्ये सङ्ग्रामेऽद्भुतदर्शने" इति ॥

 गन्धमाल्याद्यैरिति वचनं गन्धपूर्वभाविनां पादप्रक्षालनादीनामुपचाराणामनावश्यकत्वबोधनार्थम् । आद्यशब्देन ताम्बूलादिग्रहणम् ।

 गृह्यपरिशिष्टे--

"अथ स्वस्तिवाचनमृद्धिपूर्तेप्यृद्धिर्विवाहान्ता अपत्यसंस्काराः
प्रतिष्ठोद्यापने पूर्ते" इति ।

 अत्र प्रतिष्ठाग्रहणमुत्सर्गोपलक्षणम् । बौधायनः--

"सेतुबन्धनदीखाततडागपुष्करिणीवापीकूपदेवगृहप्रासादवसतीना-
मोषधिवनस्पतीनां च पूर्तं भवति" इति ।

 सेतुबन्धो जलोपरिगमनमार्गः । नदीखातं गोदावर्यादिनदीतीरे स्नानसंध्यादिकर्मार्थमुपवेशनार्थं स्थलं सोपानानि च । नदीत्युपलक्षणं, तेनाश्वत्थादिवृक्षमूलसमन्ताद्भागोऽपि खातशब्देनोच्यते । तडागो द्वाररहितश्चतुर्दिक्षु सोपानवान् । समन्तत आवृता चतुर्दिक्षु द्वारसोपानवती पुष्करिणी क्षुद्रतडागो वा । एकत्रसोपानवत्यनावृता वापी । कूपः प्रसिद्धः । देवगृहं देवालयम्(यः)। प्रासादो नदीतीरादावन्नसत्राद्यर्थोच्चशाला । वसतिः पान्थेभ्यो वासार्थं निर्मितं स्थलम् । ओषधिवनस्पतयः पुष्पवाटिकारामादिकम् । एतेषां पदार्थानामुत्सर्गः पूर्तं पूर्तसंज्ञको भवतीत्यर्थः । एतत्प्रयोगविशेष उत्सर्गरत्नमालायां वक्ष्यते ।

 आश्वलायनः--

"वैदिके तान्त्रिके चाऽऽदौ स्वस्तिवाचनमिष्यते" इति ।

 प्रयोगपारिजाते स्मृत्यन्तरे--

"गर्भाधानादिसंस्कारेष्विष्टापूर्तक्रतुष्वपि ।
वृद्धिश्राद्धं पुरा कार्यं कर्मादौ स्वस्तिवाचनम्" इति ।

 इष्टान्यग्न्याधानदर्शपूर्णमासादीनि दर्शपूर्णमासस्थालीपाकादीनि च । पूर्तानि प्रतिष्ठादीनि । क्रतवोऽग्निष्टोमादयः । वृद्धिश्राद्धं पुरा कार्यमित्येतस्य वचनस्य यथाश्रुतमर्थमनुसरन्तः पूर्वं वृद्धिश्राद्धं ततः स्वस्तिवाचनमित्येतादृशः क्रमेणैव केचिदनुष्ठानमाचरन्ति । अन्ये तु गर्भाधानादीत्यस्मिन्वाक्ये पूर्वं