पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७०
(संस्कारलोपप्रायश्चित्तप्रयोगः)
भट्टगोपीनाथदीक्षितविरचिता--

मरुतश्च त्रिष्टुप् । अयाश्चेत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । उदुत्तमं वरुण, अव ते हेड इत्यनयोर्विश्वे देवा वरुणस्त्रिष्टुप् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । संस्कारातिक्रमनिमित्तप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ त्वं नो अ० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ स त्वं नो अ० एधि स्वाहा" अग्नये वरुणाय चेदं० । "ॐ इमं मे० के स्वाहा" वरुणायेदं० । "ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्या स्वाहा" वरुणायेन्द्राय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यश्चेदं० । "ॐ अयाश्चाग्नेऽस्य० षज स्वाहा" अयसेऽग्नय इदं । "ॐ उदुत्तमं० स्याम स्वाहा" वरुणाये० । "ॐ अव ते हे० तानि स्वाहा" वरुणायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । इति प्रतिसंस्कारमष्टावाहुतीराज्येन जुहोति ।

 ततः परिस्तरणानि विसृज्यादितेऽन्वम स्था इत्याद्यैरुत्तरपरिषेकं कृत्वाऽग्निं पूजयेत् । अथवा प्रतिसंस्कारं समस्तव्याहृतिभिरेकामेवाऽऽज्याहुतिं जुहुयात् । नेतराः सप्ताऽऽहुतयः ।

 ततश्चौलातिरिक्तसंस्काराणां प्रमादादकरणे प्रत्येकं पादकृच्छ्रमपि ब्राह्मणचतुष्टयभोजनप्रत्याम्नायद्वारैव बटुना कारयेच्चौलाकरणे त्वर्धकृच्छ्रं षड्ब्राह्मणवटुभोजनप्रत्याम्नायद्वारैव स्वयमेव वा मुख्यकल्पेन कुर्यात् । आलस्यादिना चौलातिरिक्तसंस्काराणामकरणे प्रत्येकमर्धकृच्छ्रम् । चौलाकरणे कृच्छ्रम् । मुख्यकल्पासंभवे सहस्रसंख्यतिलहोमायुतगायत्रीजपद्वादशब्राह्मणभोजनाद्यन्यतमप्रत्याम्नायेन पादकृच्छ्रार्धकृच्छ्रयोर्गोदानरुद्रैकादशिनीजपादिरूपप्रत्याम्नायासंभवात्तिलहोमाद्यन्यतम एव प्रत्याम्नायः । स च तुरीयांशरूपोऽर्धरूप इति पादकृच्छ्रार्धकृच्छ्रानुसारेण कल्पनीयः ।

"पादकृच्छ्रे वस्त्रदानं कृच्छ्रार्धे तैलकाञ्चनम् ।
पादोनकृच्छ्रे गोदानं कृच्छ्रे गोमिथुनं स्मृतम्"

 इति विष्णूक्तो वा प्रत्याम्नायः कल्पयितव्यः । तैलयुक्तं काञ्चनं तैलकाञ्चनमिति समासः । सहस्रसंख्यतिलहोमस्तु प्रणवव्याहृतिसहितया गायत्र्या प्रणवसहितसमस्तव्याहृतिभिर्वा केवलेन प्रणवेन वा । अयुतगायत्रीजपस्तूपनयनोपदिष्टतृतीयपाठेन कार्यः । प्रायश्चित्तसंकल्पस्तु मम पुत्रस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनान्तसंस्कारकर्मणां स्वकालेऽकरणेन जनितस्य प्रत्यवायस्य परिहारार्थं पादकृच्छ्रं प्रायश्चित्तं तथा मम पुत्रस्य