अथवैवं योजना । अपिरवधारणार्थः । तस्य च पादकृच्छ्रमित्यनेनान्वयः । तथा चायमर्थो भवति । गर्भाधानादिचौलान्तेषु कर्मसु मध्य एकैकस्य संस्कारस्य लोपे पादकृच्छ्रमेव चरेत्, न होम इति । अयं च होमः प्रतिसंस्कारं समस्तव्याहृतिभिः कार्यः । अनन्तरोदाहृतस्मृतिवाक्यात् ।
कात्यायनस्तु सप्त प्रायश्चित्ताहुतीराह--
"त्वं नः स त्वं न इत्याभ्यामिमं मे ह्यनया ऋचा । |
प्रायश्चित्ते कृतेऽप्यन्तरितानुष्ठाने विकल्पः--
"प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै । |
शिष्टानां तु प्रायः करणपक्ष एव संमतः । यदि तु सर्वेऽप्युपनयनपूर्वतनाः संस्कारा अन्तरिताः स्युस्तदा प्रायश्चित्तपूर्वकं तान्कृत्वोपनयनं कार्यम् । प्रायश्चित्तेनैव चरितार्थता संस्काराणामिति पक्षे प्रायश्चित्तमात्रं कृत्वोपनयनं कार्यम् ।
अथैतस्य प्रयोगः ।
उपनयनदिनात्पूर्वदिने पत्न्या कुमारेण च सहकृतमङ्गलस्नान आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलकर्मान्तानां संस्काराणां कालातिपत्तिजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रायश्चित्तहोमं करिष्य इति संकल्प्योल्लेखनादिविधिनाऽग्न्यायतनं संस्कृत्य विण्नामानं श्रोत्रियागारादाहृतं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानेकां समिधमाज्यं चेति पात्राण्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीनिष्टपनादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निमदित इत्याद्यैः परिषिच्याऽऽसादितां समिधमाधाय,
त्वं नः स त्वं न इति मन्त्रद्वयस्य विश्वे देवा ऋषयः । अग्निर्वरुणश्च देवते । त्रिष्टुप्छन्दः । इमं मे वरुणेत्यस्य विश्वे देवा वरुणो गायत्री । ये ते शतमित्यस्य वामदेवो वरुण इन्द्रः सविता विष्णुर्विश्वे देवा