पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
[यज्ञियपात्रलक्षणानि]
भट्टगोपीनाथदीक्षितविरचिता--

 परिणाहो विशालता ।

अन्ते पञ्चाङ्गुलः श्लक्ष्णो यन्त्रतो वर्तुलो भवेत् ॥
दण्ड एवं स्रुचां काकपुच्छत्वं समुदीरितम् ।
यथाशोभं स्रुचः कार्या इति बौधायनोऽब्रवीत् ।
शास्त्रान्तरात्तु विज्ञेयं विशेषान्तरमत्रयत् ।
प्रादेशमात्रताऽपि स्याद्बौधायनमतादितः ।
दण्डो भागद्वयेन स्यात्पात्रं भागद्वयेन च ।
ऊर्ध्वमेकेन भागेन ग्रीवा चेति यथार्थतः ।
स्रुचः सह स्रुवेण स्युरुक्तवृक्षा अथापि वा" इति ।

 एतत्कारिकाभ्यः पूर्वत्र खादिरस्योपक्रान्तत्वात्तेन साकमयं विकल्पः । गृह्यकर्मणि-- 'वितस्तिर्गृह्यकर्मणि' इति वचनाद्वितस्तिप्रमाणेन प्रोक्षण्यर्था स्रुक्कार्या । एवं दर्व्यादीन्यपि । वितस्तिर्द्वादशाङ्गुला । त्रयोदशाङ्गुलेति केचित् । शूर्पं लोकप्रसिद्धम् । तच्च वैणवं नलमयं वेति भरद्वाजः । उलूखलं पालाशं वारणं वा । मुशलं खादिरं वारणं वा । एतयोः परिमाणे अर्थसिद्धे । दृषदुपले पेषणार्थे पाषाणमये अर्थसिद्धपरिमाणे । पात्री धातुमयी मृन्मयी वा । कपालानि तु नवं मृन्मयं घटं भित्त्वा तच्छकलानि पुरोडाशश्रपणयोग्यानि चत्वारि । एतैरश्वशफमात्रो विस्तारो यथा संपद्यते तावन्मानानि ।

  यज्ञपार्श्वे तु--

"समानि चतुरस्राणि द्व्यङ्गुलानि समन्ततः ।
कुर्यादेककपालानां कपालं पाणिसंमितम् ॥
द्विकपालत्रिकादीनि कुर्यात्तदनुसारतः ।
एवमादिसमादेशं कुर्यादौत्सर्गिकं सदा" इति ।

 मण्डनोऽपि--

"रथचक्रवदाकारः सर्वतश्च षडङ्गुलः ।
यथा कपालयोगः स्यात्तथैकैकं कपालकम् ।
उत्सेधा द्व्यङ्गुलास्तेषामेवं कुर्यान्मृदा पृथक् ।
यद्वा भिन्नघटादीनां गृह्णीतावयवानिह" इति ।

 कुलालभावितया मृदा सर्वतः षडङ्गुलं रथचक्राकृति द्व्यङ्गुलोच्चं समभूमिकं वर्तुलपीठं कृत्वाऽधस्तात्किंचित्परिशेष्य प्राञ्चं तिर्यञ्चं च विभजेत् । तेन