पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[क्वचित्संध्याहानेरदोषः]
२३९
संस्काररत्नमाला ।
( संध्याकालातिक्रमे प्रायश्चित्तम् )
 

 क्वचित्संध्याहानिरपि न दोषायेत्याह जमदग्निः--

"राष्ट्रक्षोभे नृपक्षोभे रोगार्तौ भय आगते ।
देवाग्निद्विजभूपानां कार्ये महति संस्थिते ॥
संध्याहानौ न दोषोऽस्ति यतस्तत्पुण्यसाधनम्" इति ॥

 अथ संध्याकालातिक्रमप्रायश्चित्तम् ।

 ([१]तत्र स्मार्तप्रायश्चित्तकुतूहले स्कान्दे--

"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्संध्यामुपासीत प्रायश्चित्तमतः परम्" इति ॥

 इदं च श्रान्तपरम् ।

 अन्यथा--

"प्रातःसंध्यां सनक्षत्रां नोपास्ते यः प्रमादतः ।
गायत्र्यष्टशतं तस्य प्रायश्चित्तं विशद्धये" ॥

 इति कर्मप्रदीपवचनविरोधापत्तेः । प्रातःसंध्यां सनक्षत्रामिति सायंसंध्यां तु सादित्यामित्येतदुपलक्षणमिति पृथ्वीचन्द्रः)।

 तत्र यमः--

"प्राणायामत्रयं प्रातः संगवे द्विगुणं चरेत् ।
मध्याह्ने त्रिगुणं प्रोक्तमपराह्णे चतुर्गुणम् ॥
सायाह्ने पञ्चगुणकं संध्यातिक्रमणे भवेत्" इति ॥

 ([२]स्मार्तप्रायश्चित्तकुतूहले संध्याकल्पे तु--

"प्राणायामत्रयं प्रातर्द्विगुणं संगवे स्मृतम् ।
मध्याह्ने त्रिगुणं प्रोक्तमपराह्णे तु षड्गुणम् ॥
सायाह्ने द्वादशगुणं सूर्यहत्यां ततो व्रजेत्" इत्युक्तम् ।

 शक्ताशक्तपरत्वेनात्र व्यवस्था । प्रातरादिष्वकरणे सूर्यहत्यां व्रजेत् । सूर्यहत्यां प्राप्नोतीत्यर्थः) ।

 यत्तु जमदग्निवचनं--

"संध्याकाले त्वतिक्रान्ते स्नात्वाऽऽचम्य यथाविधि ।
जपेदष्टशतं देवीं ततः संध्यां समाचरेत्" ॥

 इति तत्प्राणायामाशक्तपरम्[३] । एवं कर्मप्रदीपवचनमपि ।


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  2. धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।
  3. क. म् । य ।