पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( ब्राह्मणस्य विहितं वासः )
 

एवं द्वादशदै(दे)वत्यं ब्रह्मसूत्रं द्विजन्मनाम् ।
ब्रह्माऽग्रे कल्पयामास वेदार्हाणामनुत्तमम् ॥
येनांसे धृतमात्रेण ब्रह्मसूत्रेण ते द्विजाः ।
भवन्ति ब्राह्मणा नाम वेदार्हाश्च त्रयस्त्विह ॥
यावत्प्रभृति वामांसे ब्रह्मसूत्रं द्विजस्य तत् ।
गुरुः प्रतिष्ठापयति काले प्रभृतिसंयतः ॥
तावत्प्रभृति तस्यैव पिताऽऽचार्यः स उच्यते ॥
माता च तस्य सावित्री द्वितीयं जन्म चोच्यते ।
आकटेस्तत्प्रमाणं स्याद्दीर्घं तु [१]सुस्थितं [२]तथा ॥
आयुर्हरत्यतिह्रस्वमतिदीर्घं तपोहरम् ।
सिद्धार्थफलमानेन स्थूलं स्यादुपवीतकम् ॥
यशोहरमतिस्थूलमतिसूक्ष्मं धनापहम् ।
पवित्रं परमं शुद्धमायुष्यं च शुभावहम् ।
[३]औजस्यं ब्रह्मवर्चस्यं ब्रह्मसूत्रं तथोदितम्" इति ।

"यज्ञोपवीतं परमं पवित्रं विभूषणं ब्राह्मणलक्षणं च ।
पद्मासनस्थेन पितामहेन उत्पादितं पङ्कजनालसूत्रात्" ।

 इति यज्ञोपवीतोत्पत्तिः ।

"यज्ञोपवीतस्योत्पत्तिं जानाति ब्राह्मणो न चेत् ।
स वै वहति भाराय पुस्तकानि यथा वृषः" इति ॥

 वासो धर्मसूत्रे--

'वासः शाणीक्षौमाजिनानि' इति ।

 वस्यते कौपीनमाच्छाद्यते येन तद्वासः । शणस्य विकारः शाणी पटी । क्षुमाऽतसी तस्य विकारः क्षौमम् । श्वेतपट्टाख्यं वासोविशेष इत्यन्ये । अजिनं यस्य कस्यचिन्मेध्यस्य पशोः । एतेषु त्रिष्वेकं वासः परिदध्यादित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 वसिष्ठेन तु ब्राह्मणस्य कार्पासं[४] वास उक्तम्--

 "ब्राह्मणस्य कार्पासं वासः" इति ।

 एतच्चाहतं, तदुक्तं गृह्ये--

"अथैनमहतं वासः परिधापयति" इति ।


  1. ग. सुस्थिरं ।
  2. क. तदा ।
  3. क. आयुष्यं ।
  4. क. ख. ग. र्पासवा ।