पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१३३
संस्काररत्नमाला ।
( सर्वतोभद्रमण्डलदेवतावाहनम् )
 

 ऋताषाडित्यस्य पान्त्वित्यन्तस्य विश्वे देवा गन्धर्वाप्सरसो यजुः । गन्धर्वाप्सरआवाहने विनियोगः । "ॐ ऋताषाडृतधा० पान्तु" गन्धर्वाप्सरोभ्यो नमो गन्धर्वाप्सरस आवाहयामि । इति वरुणवाय्वोर्मध्ये गन्धर्वाप्सरसः।

 यदक्रन्द इत्यस्य विश्वे देवाः स्कन्दस्त्रिष्टुप् । स्कन्दावाहने विनियोगः-- ॐ "यदक्रन्दः प्रथ० जातं ते अवन्" स्कन्दाय नमः स्कन्दमावाहयामि । इति ब्रह्मसोममध्ये स्कन्दम् ।

 तत्पुरुषाय विद्महे चक्रतुण्डायेत्यस्य याज्ञिक्यो देवता उपनिषदो नन्दीश्वरो गायत्री । नन्दीश्वरावाहने विनियोगः । 'ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात्" नन्दीश्वराय नमो नन्दीश्वरमावाहयामि । इति स्कन्दस्योत्तरतो नन्दीश्वरम् ।

 यत्ते गात्रादित्यस्य विश्वे देवाः शूलो भूरिकत्रिष्टुप् । शूलावाहने विनियोगः । "ॐ यत्ते गात्रा० मस्तु" शूलाय नमः शूलमावाहयामि । इति नन्दीश्वरस्योत्तरतः शूलम् ।

 कार्पिरसीत्यस्य सोमो महाकालो यजुः । महाकालावाहने विनियोगः । "ॐ कार्षिर० षां मृध्रम्" महाकालाय नमो महाकालमावाहयामि । इति शूलस्योत्तरतो महाकालम् ।

 द्वाविमौ वातौ वात इत्यस्य विश्वे देवा दक्षोऽनुष्टुप् । दक्षावाहने विनियोगः । "ॐ द्वाविमौ० यद्रपः" दक्षाय नमो दक्षमावाहयामि । इति ब्रह्मेशानयोर्मध्ये दक्षम् ।

 तामग्निवर्णामित्यस्य याज्ञिक्यो देवता उपनिषदो दुर्गा त्रिष्टुप् । दुर्गावाहने विनियोगः । "ॐ तामग्निवर्णां० तरसे नमः" दुर्गायै नमो दुर्गामावाहयामि । इति ब्रह्मेन्द्रयोर्मध्ये दुर्गाम् ।

 इदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्ण्वावाहने विनियोगः । "ॐ इदं वि० सुरे" विष्णवे नमो विष्णुमावाहयामि । इति दुर्गायाः पुरतो विष्णुम् ।

 उदीरतामित्यस्य विश्वे देवाः स्वधा त्रिष्टप् । स्वधावाहने विनियोगः । "ॐ उदीरताम० हवेषु" स्वधायै नमः स्वधामावाहयामि । इति ब्रह्माग्न्योर्मध्ये स्वधाम् ।

 परं मृत्यो, इत्यस्य विश्वे देवा मृत्युरोगात्रिष्टुप् । मृत्युरोगावाहने विनि