पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
[ग्रहमुखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता-
(कुण्डावयवेषु देवतानामावाहनम्)
 

 अथाऽऽचार्योऽग्न्यायतनस्य पश्चादुपविश्याऽऽचम्य प्राणानायम्य--

"यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।
अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे" ।

 इति प्रागादिक्रमेण सर्वतः सर्षपान्विकीर्य, शुची व इत्यस्य विश्वे देवा मरुतस्त्रिष्टुप् । अग्निः शुचित्तव्रततम इति द्वयोर्विश्वे देवा अग्निः शुचिर्गायत्री, पञ्चगव्येन भू[१]मिप्रोक्षणे विनियोगः-- "ॐ शुची वो हव्या मरुतः शु० पावकाः । अग्निः शुचिव्रत० हुतः । उदग्ने शु० प्यर्चयः" । इति पञ्चगव्येन सर्वतो [२]यागभूमिं प्रोक्ष्य । आपो हि ष्ठेतितृचस्याग्निरापो गायत्री, शुद्धोदकेन भूमिप्रोक्षणे

विनियोगः-- "ॐ आपो हि ष्ठा मयो० यथा च नः" इति शुद्धोदकेन सर्वतो या[३]गभूमि प्रोक्ष्य, स्वस्ति न इत्यस्य याज्ञिक्यो देवता उपनिषद इन्द्रादयो विराट्त्रिष्टुप् । जपे विनियोगः-- "ॐ स्वस्ति न इन्द्रो वृद्ध० दधातु" इति जपित्वा, देवा आयान्तु यातुधाना अ[४]पयान्तु विष्णो देवयजनं रक्षस्वेत्यग्न्यायतनात्पश्चाद्भूमिमभिमृशेत् । मण्डपपक्षे मण्डपार्थभूमिशोधनादि तदीयदेवतापूज[५]नान्तं मत्कृतशान्तिरत्नमालापद्धत्युक्तरीत्या कुर्यात् । ([६] उक्तलक्षणकुण्डसत्त्वे तत्कुशमुष्टिना संमृज्य कुण्डोपरितनमेखलायां श्वेतवर्णभूषितायामिदं विष्णुरित्यस्य सोमो विष्णुर्गायत्री । विष्ण्वावाहने वि० "ॐ इदं विष्णुर्विचक्रमे० पा सुरे । विष्णवे नमो विष्णुमावाहयामि" इति विष्णुमावाहयेत् । ततो मध्यममेखलायां रक्तवर्णभूषितायां ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने वि० "ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि० श्च विवः । ब्रह्मणे नमो ब्रह्माणमावाहयामि " इति ब्रह्माणमावाहयेत् । ततोऽधोमेखलायां कृष्णवर्णभूषितायां मृडा नो रुद्रेत्यस्याग्नी रुद्रो विराड्जगती । रुद्रावाहने वि० "ॐ मृडा नो रुद्रोत नो मयस्कृधि० प्रणीतौ । रुद्राय नमः, रुद्रमावाहयामि" इति रुद्रमावाहयेत् । उदकस्पर्शः । ततो योन्यां रक्तवर्णभूषितायां गौरीर्मिमायेत्यस्य विश्वे देवा


  1. ङ. भूमेः प्रो ।
  2. क. भूमिं ।
  3. क. भूमिं ।
  4. ग. अपाया ।
  5. घ. ङ. न्तं शा ।
  6. धनुचिह्नान्तर्गतग्रन्थस्थाने क. पुस्तकेऽन्यो ग्रन्थोऽस्ति स यथा--"तत आयतन कुशमुष्टिना संमृज्य यथोक्तलक्षणकुण्डसत्त्वे ब्रह्मविष्णुरुद्राख्या मेखलादेवता आवाह्य गौरीं योनिदेवतामावाह्य" इति ।