पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
[ग्रहपीठरचनाप्रकारः]
भट्टगोपीनाथदीक्षितविरचिता--
(देवतामूलमन्त्रस्वरूपम्)
 

श्रस्याऽऽग्नेयकोणाद्दक्षिणतो यूकाषट्कैकयवाधिकैकाङ्गुलात्मकं प्रदेशमृजुतया वर्धयित्वा तत्र चिह्नं कृत्वैवमेवोत्तरतो वर्धयित्वा चिह्नं कृत्वा दक्षिणदिग्गतचिह्नान्नैर्ऋतकोणपर्यन्तां रेखां लिखित्वोत्तरदिग्गतचिह्नाद्वायव्यकोणपर्यन्तां रेखां लिखित्वाऽधःस्थद्व्यङ्गुलात्मकभुजार्धयोश्चिह्नं कृत्वा ताभ्यां चिह्नाभ्यामेकैकाङ्गुलात्मकव्यासार्धन कर्काटकेन वृत्तद्वयं लिखेत्, मध्यस्थितं सर्वं मार्जयेदित्येवं शूर्पाकारं पीठं राहोः ।

 वायव्यां नानावर्णैः पूर्वापरमष्टाङ्गुलदीर्घं चतुर्यवान्तरं रेखाद्वयं विलिख्याध आरभ्य पञ्चाङ्गुलप्रमाणमुपरिभागादेकाङ्गुलप्रमाणं प्रदेशमुत्तररेखायास्त्यक्त्वा शिष्टद्व्यङ्गुलप्रमाणां रेखां संमार्ज्यैकयवाधिकचतुरङ्गुलात्मकौ भुजावुत्तरतो मिथो लग्नास्यौ कुर्यादित्येवं ध्वजाकारं पीठं केतोः।

 सर्वत्र कोष्ठमध्यभागानुसारेण पीठमध्यभागकल्पना । आदित्याभिमुखाः सर्व इत्येतस्मिन्पक्षे सोमचतुरश्रपीठस्य दिक्षु कोणाः कल्पनीयाः । भौमस्य तु पूर्ववदेव । बाणस्याग्रमीशानकोष्ठनैर्ऋतकोणसंमुखं यथा भवति तथा बुधबाणाकारपीठम् । बृहस्पतेः पूर्ववदेव । शुक्रपीठस्य पश्चिमां दिशमारभ्य पञ्चज्याकल्पनम् । शनेः पीठं प्राग्ज्यं कल्पनीयम् । नैर्ऋतकोष्ठेशानकोणाभिमुखं राहुपीठं शूर्पाग्रं कल्पनीयम् । ध्वजस्योत्तराग्रता पूर्वत्रोक्ताऽत्र दक्षिणाग्रतेति केतुपीठम् । इति विशेषः ) सर्वतोभद्रादिपीठं[१] मूलमन्त्रेण जुहुयादितिवचनाभावान्न मूलमन्त्रेण होमः,

किंतु--"प्रणवादिचतुर्थ्य[२]न्तं स्वाहाशब्दसमन्वि[३]तम् ।
 स्यात्पीठदेवताहोमे [४]मन्त्रो नामैव कीर्तितः" ।

 इति तन्त्रप्रकाशकारोक्तेर्नमःशब्दरहितेनैव[५] नाममन्त्रेण होम इति द्रष्टव्यम् । मूलमन्त्रस्वरूपं[६] तु गारुडे--

"प्रणवादिचतुर्थ्यन्तं नमोन्तं चैव सत्तम ।
देवतायाः स्वकं नाम मूलमन्त्रः प्रकीर्तितः" इति ।

 तथा च यत्र मूलमन्त्रेण जुहुयादिति वचनं विशेषविहितमन्त्राभावश्च तत्रायं मूलमन्त्रः । तेन कर्तव्ये होमे नमःशब्दोत्तरं स्वाहाकारो[७] भवति ।


  1. क. ठे यन्त्रे च मू ।
  2. क. र्थ्यन्तः स्वा ।
  3. क. न्वितः । यन्त्रपीठादिदेवानां हा ।
  4. क. मन्त्रः प्रकी ।
  5. क. तेनैवेति ।
  6. क. प गा ।
  7. क. कारोऽपि । अ ।