पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
[प्रायश्चित्तमन्त्राणामृष्यादि]
भट्टगोपीनाथदीक्षितविरचिता--

 वामदेवः[१] स्कन्नं हविर्यजुः । स्कन्नस्य स्वस्थाने प्रक्षेपे विनियोगः । अभिमन्त्रणकल्पे तु स्कन्नाभिमन्त्रणे विनियोग इति विनियोगवाक्यम् । "ॐ यज्ञस्य त्वा प्र मयाऽभि मया वि मयोन्मया परिगृह्णा[२]मि" । मा यजमान इत्यस्य सौत्रस्य वामदेवोऽग्निर्यजुः । बहिष्परिधिस्कन्नाया आहुतेः पुनरग्नौ होमे विनियोगः । "ॐ मा यजमानस्त० षं कृत स्वाहा" अग्नय इदं० । जुहुयादित्यस्य प्रक्षेपमात्रमर्थ इति वा । अस्मिन्कल्पे न त्यागः । अग्निभ्रातॄणां तृप्तिस्तु बहिष्परिधिपातमात्रेण ।

 यद्वो देवा इत्यस्य विश्वे देवा देवास्त्रिष्टुप् । अविहितदेवतायोजननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ यद्वो देवा अ० धेतन स्वाहा" देवेभ्य इदं० । मनोज्योतिरिति मनस्वतीसंज्ञक[३]स्याग्निर्मनो ज्योतिस्त्रिष्टुप् । स्वाहाकारप्रदानविपर्यासनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ मनोज्योतिर्जु० घृतेन स्वाहा" मनसे ज्योतिष इदं० । [४]त्वं नो अग्ने स त्वं नो अग्न इत्यनयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । अवदानविपर्यासनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः "ॐ त्वं नो अ० स्मत्स्वाहा" अग्नये वरुणाय इदं० । "ॐ स त्वं नो ० एधि स्वाहा" अग्नये वरुणाय चेदं० । एवं द्रव्यत्यागदेवतामन्त्रविपर्यासेऽप्यूहेन । प्रधानद्रव्यानुत्पादनिमित्तकप्रायश्चित्ताज्यहोमे विनियोग इति प्रधानद्रव्यानुत्पादनिमित्तकप्रायश्चित्ताज्यहोमविनियोगवाक्यम् । यन्म आत्मनः पुनरग्निमिति मिन्दाभिधयोर्द्वयोः सोम ऋषिर्मिन्दवाञ्जातवेदा अग्निः प्रथमस्य देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च । प्रथमस्य गायत्री [५]छन्दः, द्वितीयस्यानुष्टुप् । हविर्दोषनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । "ॐ यन्म आ० चर्षणिः स्वाहा" मिन्दवते जातवेदसेऽग्नय इदं० । "ॐ पुनरग्नि० मक्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० । अग्नये स्वाहेत्यादीनां[६] मन्त्राणां वामदेव ऋषिः । अग्निर्यमो वरुणः सोमश्चेति क्रमेण देवताः । यजूंषि । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । चरूत्सेकनिमित्तकप्रायश्चित्ताज्यहोमे विनि० "ॐ अग्नये स्वाहा" अग्नय इदं० "ॐ यमाय स्वाहा" यमायेदं० "ॐ वरुणाय स्वाहा" वरुणायेदं० । "ॐ सोमाय स्वाहा" सोमायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । आप्यायस्व सं ते पया सीत्यनयोरग्निर्ऋषिः । सोमो देवता प्रथमस्य गायत्री[७] छन्दः, द्वितीयस्य त्रिष्टुप् । उत्सिक्तस्य हविष आप्यायने विनियोगः "ॐ आप्यायस्व० गथे" "ॐ सं ते पया सी० धिष्व" । यन्म आत्मनः पुनरग्निरि[८]तिमिन्दाभिध

क. सौत्रस्य ।


  1. ग. घ. ङ. देव ऋषिः । स्क ।
  2. ग. घ. ङ. ह्णाति । मा ।
  3. ग. कस्य मन्त्रस्यां ।
  4. क. ख. त्वं नः स त्वं न इ ।
  5. क. त्री । द्वि ।
  6. क ख. नां वा ।
  7. क. ख. त्री द्वि ।
  8. क. तिद्वयोः