पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
[प्रायश्चित्तमन्त्राणामृष्यादि]
भट्टगोपीनाथदीक्षितविरचिता--

प्रायश्चित्तमन्त्राणामृष्यादिकथनम् ।

 अथ कारिकासूपात्ताः प्रायश्चित्तमन्त्रा ऋष्यादिसहिता उच्यन्ते--

 अनाज्ञातमितिमन्त्रत्रयस्य विश्वे देवा ऋषयः, अग्निर्देवता, प्रथमद्वितीययोरनुष्टुप्, तृतीयस्य त्रिष्टुप् । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ अनाज्ञातं य० तथम् । पुरुष० तथम् । यत्पाकत्रा० यजाति" । इदं विष्णुरित्यस्य[१] मन्त्रस्य सोमो विष्णुर्गायत्री । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ इदं विष्णु० सुरे"। समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रायश्चित्तार्थे जपे विनियोगः-- "ॐ भूर्भुवः सुवः" । आभिर्गीर्भिरित्यस्य विश्वे देवा हरिवानिन्द्रस्त्रिष्टुप् । स्वराक्षरादिलोपनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ आभिर्गीर्भिर्य० ते स्याम स्वाहा" हरिवत इन्द्रायेदं० । त्वं नो अग्ने स त्वं नो अग्न इत्यन[२]योर्मन्त्रयोर्विश्वे देवा अग्निर्वरुणश्च त्रिष्टुप् । मन्त्रलोपनिमित्तकेऽमुककर्मलोपनिमित्तके विपर्यासनिमित्तके वा प्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ त्वं नो अ० स्मत्स्वाहा" अग्नये वरुणाय चेदं० । "ॐ स त्वं नो० एधि स्वाहा" अग्नये वरुणाय चेदं । त्वमग्ने अयासीत्यस्य विश्वे देवा अया अग्निरनुष्टुप् । प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । परिस्तरणदाह[३]निमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ त्वमग्ने अ० षज स्वाहा" अयसेऽग्नय इदं० । "ॐ प्रजापते० णा स्वाहा" प्रजापतय इदं० । परिध्यादिदाहे तु तत्तच्छब्देनोहो विनियोगवाक्ये । छेदनादिषु दाहशब्दे छेदनादिशब्दोहः । यत्पाकत्रेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । इध्मसमिन्न्यूनत्वनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ यत्पाकत्रा ० जाति स्वाहा" अग्नय इदं० । इध्मसमिदतिरेकनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । इतीध्मसमिदतिरेकप्रायश्चित्ताज्यहोमे विनियोगवाक्यम् । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । बर्हिष्पतननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः-- "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । एवमिध्मादिपतनेऽपि । पुनस्त्वे[४]त्यस्य मन्त्रस्याग्निरादित्या रुद्रा वसवो ब्रह्माणश्च त्रिष्टुप्[५] । पुनस्त्वेतिमन्त्रस्याग्निर्वसुनीथोऽग्निस्त्रिष्टुबिति वा । अग्न्युपघातनिमित्तकप्रायश्चित्तसमिदाधाने विनियोगः । अग्न्युपघातनिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः, इति होमे[६]

 "ॐ पुनस्त्वाऽऽदित्या० कामाः स्वाहा" आदित्येभ्यो रुद्रेभ्यो वसुभ्यो ब्रह्मभ्यश्चेदं० । वसुनीथायाग्नय इदमिति वा । उद्दीप्यस्व मा नो


  1. क. स्य सो ।
  2. क. योर्वि ।
  3. क. ख. हप्रा । ङ. हकप्रा ।
  4. त्यस्याऽऽ ।
  5. क. प् । अग्नि ।
  6. ग. मे । पुनस्त्वाऽऽदित्या कामाः । पु ।