पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

18

स्वापे स्वस्मिन् लये यन्मनस उपलयोऽस्त्यम्मये प्राण इत्थ
मृत्यां प्राणः सचितो भजति लयविधां तेजसीदं परस्याम् ।
चिन्त्योन्या च तेजो ह्युदकविलयकृत् स्यात् तथाऽपोऽशनाया
कामं वाक् चित्तगा स्यात् तदपि लयविधा पूर्वदृष्टक्रमा म्यात् ॥ ७९

इत्थं सर्वस्य तेजःप्रभृतिविकृतितां चेतनानाञ्च भेदं
स्पष्टं प्रोच्याष्टमान्तैरवददथ परैरष्टभिश्चै।मर्थान् ।
स्वापादौ जीवभेदो भवति मधुरसन्यायतः सिन्धुवार्धि
न्यायाज्जीवेशभेदः चिति मृतिवचने त्वस्तु गौणं ग्रहणात् ॥ ८०

न्यग्रोधन्यायरक्ष्या जनिरतिमहतोऽणिष्ठतस्तत् सदेवा
दृश्यं स्यात् तोयलीनं लवणमिव, गुरौ मोचयत्यस्तु दृश्यम् ।
अस्याप्यासृत्युपक्रान्त्युचितलयदशं बन्धुतापादिबन्ध
निष्कर्माणं तु तप्तः परशुरिव भवो बाधते नैव मुक्तम् । ८१

एवं दृष्टान्तभूम्ना दृढमधिगमितः श्वेतकेतुः स्वपित्रा
सद्विद्यां यामवाप्तो वृषशिखरिपते ! तत्र चिन्त्यस्त्मित्थम् ।
सूक्ष्मोऽथ स्थूलभूतो निखधिविलसत्सत्यभावोऽन्तरात्मा
स्वान्तर्यामीति, मुक्तश्चरमतनुविमुक्तयैव संपद्यते त्वाम् ॥ ८२

नामज्ञो नाम्नि वाचीश्वर ! मनसि परिज्ञाय संकल्पचित
ध्यानप्रज्ञाबलान्नाम्बुषु पृथगुदितास्तेजसि ब्रह्मदृष्टीः।
व्योम्नि स्मृत्याशयोश्च प्रथितलपुपृथकामचारप्रकाराः
अक्षीणप्रश्नशोको मुनिरतिवदितुं बोधितप्राणितत्वः ।८३

कारुण्येनोपदिष्टस्तदनु दशदिशान्तस्थमात्मान्तरिद्धं
भूमानन्दश्च सत्यं यमुदितनिखिलप्राणिपर्यन्तहेमम् ।
स त्वं सर्वप्रतिष्ठाऽस्यतिवदनमहाभूमिराहारशुद्भि
ध्येयः सत्कमचारोचितबहुभवनाद्यर्थदः शोकहन्ता ।