पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ४. अस्मान्मायी सृजते विश्वमेतत् तसिश्चान्यो मायया संनिरुद्धः ॥९॥ मायां तु प्रकृतिं विद्यान्मायिन तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १०॥ स्रष्टृत्वं किं न स्यादित्याशङ्कयाऽऽह तस्मिंश्चान्यो मायया संनिरुद्धः । अन्यो जीवः तदाश्रितमायामोहितः । अतः तस्य मायाप्रेरकत्वाभावान्न स्रष्टृत्वमिति भावः । (९) माया नाम का ? तत्प्रेरकश्च क इत्यत्राह मायां त्विति । त्रिगुणात्मिकां प्रकृतिं विचित्राश्चर्यसर्गहेतुतया मायाशब्दितां विद्यात् । 'मायाप्रेरकस्तु महेश्वर इति विद्यादित्यर्थः । न च महेश्वरशब्दो देवतान्तरवाचक इति शङ्क्यम् ---तैत्तिरीयके , ' यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः । इत्यकारवाच्यस्यैव नारायणस्य महेश्वरशब्दार्थस्वाभिधानादिति द्रष्टव्यम् । तस्यापृथक्सिद्धविशेषणतया तदंशभूतैर्जीवैः सर्वमचेतनं व्याप्तमित्यर्थः । ततश्च जगदन्तर्गताः तदपृथक्सिद्धविशेषणतया तदंशभूता इत्यर्थः । (१०) ---... ... ...-------...--. 1. मायायाः .. --- ... --......---. .. ... .... -- ..... तस्मिन् मायया संनिरुद्ध इति प्रयोगस्वारस्यात् तच्छब्दमायाशब्दार्थयोरपि भेदावश्यम्भावादिति चेन्न - तस्मिन्निति ईशग्रहणे तत्र संनिरुद्धत्ववर्णनायोगात् । एवं वास्तु-अस्मादिति पूर्वोक्तमहिमार्थकम् | महिमबलात् मायी विश्व सृजति । महिम्नि च जीवो निरुद्धः कुण्ठितप्रवृत्तिः तद्वेदनाद् व्यावर्तित इति यावत् । यता, पूर्वं पश्यति, वेद इत्युक्तं वेदनम् अस्मादित्युच्यते । वेदनाद्धेतोः = तदर्थमेव मायी सृजते। अयं तु मायापरवशः ऋगादिदर्शितकत्वादिजन्याल्पास्थिरजगदैश्वर्यनिमग्नो वेदने निरुद्धगतिरित्येवम् । वस्तुतः भाष्योक्तमेव श्रीभाष्यानुरोधि (१.४.१)। (९) या प्राक् अजा उक्ता सैव माया, यश्च प्रागुक्त ईश: स एव मायीत्युच्यते अन्यत्वभ्रान्तिनिवृत्यर्थम् मायामिति । त्रिगुणात्मिकेति । पूर्व लोहितशुक्लकृष्णामित्यनेन सत्त्वरजस्तमोमयत्वस्यापि कथनसंभवात् , 'देवात्मशक्ति स्वगुणैर्निरूढाम् ,' 'देवी ह्येषा गुणमयी मम माये 'ति श्रुतिस्मृत्यनुसाराच्चेदम् । अत्राप्यध्याये, 'य एकोऽवर्ण:- विश्वमादौ स देवः' इति अकारवाच्यं देवं प्रस्तुत्य तत्संबन्धिनी अजा प्रस्तुता। एवंम्भूतदेवसंबन्धिनी माया मम मायेति गायंश्च भगवान् अत्र महेश्वरशब्दस्य स्वार्थकत्वं गमयन् तैत्तिरीयसंवादं दृढयति । (10)