पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३ )

लोकानां मिषतश्चतुर्धरतया कृत्वा स्थिरान् स्वात्मनो
ज्ञातान् लोमतया गुरुः परमविच्छ्रीरामदासः प्रभुः ॥१०॥

गङ्गाद्वारसमं समस्तभुवनस्थानं चतुर्भिर्युतं
द्वारैः पूर्वयमाम्बुपोत्तरगतैः सन्तोषशीलान्वितैः ।
श्रीमद्भक्तिदयादिसाधनयुतैः सोपानपङ्क्युज्ज्वलैः
स्वर्गं द्वारमिवामरावतिकया पुर्या समालिङ्गितम् ॥ ११ ॥

तेषां ब्रह्म सनातनं सुविमलं शुद्धं सुसूक्ष्मं परं
तत्सर्वत्र विभात्यपीह रहिताः शान्त्यादिभिः साधनैः ।
ये नित्यं कलिकालमध्यजनितास्तत्कीर्तने तत्परा
दानाधीतिशुभेष्टिपूर्तरहिता अप्यत्र वासाहताः ॥ १२ ॥

तुम्बीवेणुमृदङ्गझमरझणझाङ्कारवीणारवैः
संयुक्ता निपुणाः कवित्वकरणे ये गानरताः सदा ।
द्युम्नाश्चारणसूतमागधवरा ग्रन्थाग्रतो गानतः
पूज्यत्वं गमिता अहोऽतिमहिमा कस्तं न सेवेत् सुधीः ॥१३॥

स्त्रीहूणान्ध्रपुलिन्दझीवरनटम्लेच्छादयो जातितो
नीचा अप्यनुरागभक्तिवशतः सिद्धिद्वयीं प्रापिताः ।
हे सन्तः शृणुत प्रभोर्गुणगणनामं सदा गायत
वेदान्तोपनिषत्पुराणपठितं श्रीनानकाद्यैः पुनः ॥ १४ ॥

एषा श्लोकचतुर्दशीविरचिता गोविन्दसिंहाग्रतः
कृत्वोपायनमेतदेव विदुषा कोरेण संरक्षिता ।
भारद्वाजसगोत्रभिङणकुले जातेन सम्प्रेरिते-
नोमादेवंतया हृदिस्थपदया सुप्रीतया मानसे ॥ १५ ॥

श्रीरामादिकदासजीसुहृदयाभिप्रायमेवं मया