सामग्री पर जाएँ

पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रयङ्कम् ।

प्रथमः सर्गः।

अमृतसरोवर्णनम् ।

श्रीमन्नानकमङ्गदं ह्यमरदासं रामदासार्जुनौ
गोविन्दं हरिपूर्वकं हरि च रायं श्रीहरिकृष्णकम् ।
तेगादिं च बहादरं नमत भो गोविन्दसिंहं भुवि
जातान् भक्तहितान् महोदययुतान् खक्ष्मावतारान् कलौ ॥१॥
पुण्यस्थानविशेषकारणतया श्रीरामदासेन यद्
ज्ञातं सन्निरमायि सेवकजनस्वान्तैकशुद्धिप्रदम् ।
तीर्थं दर्शनतः पुमर्थमखिलं सेवानुरूपं दद-
न्नाम्ना ख्यातमिहामृतं सर इति प्रोत्फुल्लपुण्याम्बुजम् ।। २ ।।
यत्तीरे प्रमुखं स्थलं विजयतेऽकालैकनिष्ठावतां
नित्यं कीर्तनरागपुस्तकवचो गोविन्दचर्चायुतम् ।
निःश्यानं जलदैकलेखनपरं यत्रौत्तरे दिक्तटे
पूर्वे कल्पमहीरुहोपवनकं यत्साधुसङ्घान्वितम् ॥ ३ ॥
यद्दचे रणशूरयोधसमुदायस्थानशोभावहं
तारासिंहसुजानसिंहवसतिस्त्रीतीर्थभूषायुतम् ।