पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६ )

त्रयोदशः सर्गः।
हरिकृष्णतेगवहादरगुणगणवर्णनम् ।

दिल्लीपुरिं तत्पतिमीक्षयेयं
तं देशमाप्येति जगाद हृष्टः।
मात्रा समेतः शिविकां रुरोह
दिल्लीं प्रविष्टः कतिभिर्दिनैश्च ॥ १ ॥

तद्द्वारं किं निविष्टः स च मनसि तया पूर्वसन्तर्कितश्च
साङ्कारूढं च दृष्ट्वा मननविनतिभिर्द्रव्यपूरैरनन्तैः ।
पूजां चक्रे प्रसन्ना स च वसति गृहे तत्प्रसादाभिलाषी
किश्चित्काले व्यतीते रुगवसितशरीरोऽतिखिन्नः स लोके ॥२॥

शिष्यैः समिलित्वा कथितमिति गुरो देहरक्षा च कार्या
लोके वार्ता विलोक्या जगति हितकरी संस्थितिः सजनानाम् ।
तैरुक्तं म्लेच्छलोको न हि न हि नयनैर्गोचरीकार्य एव
चक्षुः सम्मील्य गम्यं वपुरिह सततं शीतलाछद्महेयम् ॥३॥

भूयः पृष्टं च शिष्यैर्वयमिह शरणं कस्य यामः समस्ता
उद्धारो येन नः स्याजगति समुदितं तेन वा चाबकाले ।
ग्रामे स्थायीभवत्सुप्रकटितमहिमः शीघ्रमाविर्भविष्यन्
गत्वा लोके परीक्ष्यं वदति गुरुरिति स्तब्धमुष्टिं स्म कुर्वन् ॥४॥

मन्त्री प्रोचे दिलीशो यदि वदति तदा किं तदने प्रवाच्यं
तद् ज्ञात्वोद्धर्तुकामः सकलजनहितो रागहीनं जगाद ।
आदौ सेवी गुरूणां शमदमनिरतः द्धितो वै तितिक्षु-
र्वैराग्यं बोधयुक्तं दधदुपरतवान् वेदशीर्षाधिकारी ॥ ५ ॥

पट्टाद्यानर्घ्यवासो मणिगणकनकप्रावृतौ शोभनं किं
किं भुक्तौ मांसमेदोघृतगुडमधुरान्नाज्यसच्छष्कुलीनास ।