ज्ञात्वा तेन स चोक्तो रणविमुखेनेह किं क्रियते ।
भवता बहिर्मुखेन पापजनाचरितमाचारि ॥ ३ ॥
मन्त्री नत्वोवाच क्षम्यं मम कर्म दुरिताढ्यम् ।
तन्नमनं च विलोक्य प्रोचे सन्मार्गमुपदिष्टम् ॥ ४ ॥
हरिरायो जनस्वामी विदितः सप्तमासने ।
तद्गेहं बाहुजः कश्चिन्मृतपुत्रः समागतः ॥५॥
तं दुःखिनं गुरुः प्रोचे भज त्वं परमेश्वरम् ।
सर्वदुःखविनाशाय परलोकाभयाय च ॥ ६ ॥
तेनोक्तं मम भवने पञ्चजनाः सन्ति मत्पाल्याः ।
पुत्रद्वयं च कन्या नारी भृत्यश्च धनहीनाः॥७॥
विधिरेव ददाति नापरो गुरुणोक्तं न हि मन्यते स्म सः ।
मम पत्रमिदं मदीयशिष्येऽपय योग्यं गुरुरित्युदैरयत ॥ ८॥
पत्रीमध्ये लिलेख प्रवरतरगुरुः पत्रिका वाचयित्वा
बध्यैनं रक्ष गेहे सुखिनमुपगतं मञ्चकादीन् सुमृष्टम् ।
षण्मासान्ते पुनर्वं मम निकटमुपायात्विहेत्थं कृपालु-
स्तत्पत्रीं वाचयित्वा तदनुकृतमिदं गुर्वनुज्ञानुसारम् ॥९॥
तत्रस्थः सोऽप्यवादीन्मम गृहे मनुजा मद्विहीना म्रियेरन्
श्रुत्वाप्येचं तमेनं न हि गुरुवचनान्मोचयामासुरेते ।
तत्पुत्राश्चैकवारं छुपवसनगतास्तत्समीपस्थलोकैः
श्रुत्वा ज्ञात्वा च वार्ता स्वगृहत उरुपात्राणि गोधूमचूर्णैः ॥१०॥
पूर्त्वा दत्तानि तेभ्यो बहुमुजिरुचिता तद्दिनेऽभूत्तदीया
तैः पुत्रावेकहट्टे वणिज उपसमासादितौ कृत्ययुक्तौ ।
सूचीकृत्ये नियुक्ता बहुनिपुणमतिः कन्यका तस्य लौकै-
स्तन्निर्वाहस्तुं सम्यक् स्म चलति स जनः षष्ठमासान्त आयात् ॥११॥