सामग्री पर जाएँ

पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७ )

स्थितो यत्तोऽहं वै त्वमपि तदपत्येषु कतम
इति श्रुत्वा तेन स्थगितमिदमेवं हि गुरुणा ।। १२ ।।

ततो लोके ज्ञातं नृपकुलसमुत्थेन प्रभुणा
स्वभूमावारब्धं सर इति समीपक्षितिधरैः ।
धरा दत्ता तेन खयमपि पुरी विस्तरवती
महापुण्यैः पूर्णा बहुसरसशोभागुणवती ॥ १३ ॥

तस्मात्तीर्थमिदं पुराणमहिमं यत्सिद्धवाक्सङ्गतं
शुद्धान्तःकरणैर्जनैरवहितैर्यत्सेवितं मोक्षदम् ।
त्रैवर्ग्यस्य फलं स्खचित्तवशतः कल्पद्रुमाभासितं
लब्धं पुण्यगणैः पुराभवभवैर्यदुर्लभं हस्तगम् ॥ १४ ॥

दूराद्ये समुपागताः श्रुतमहाशोभा अहो पश्यत
दृष्ट्वा भक्तिवलेन पूरितमहाकामास्त एवं ध्रुवम् ।
लक्ष्मीराज्यविभूतिकीर्तिमहिताः सम्यक् प्रतिष्ठां गताः
लोके चै कलिकालविक्रमपरिक्रान्तेन सङ्क्रामिताः ॥ १५ ॥

श्रीमद्भक्त्येकनिष्ठागतहृदयतया सर्व एवं विचत्र-
राधागोविन्दसिंहावधिसममतयो ग्रन्थसद्ग्रन्थनार्दाः ।
लोके तत्पाठयुक्ता जपभजनरताः सिद्धिमन्तो बभूवु-
वश्याकर्षादिदीनोद्धरणमतिपराः श्रीसुखप्रेमरक्ताः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
मङ्गलाचरणसिद्धाविर्भावपूर्वकसनविरचनं नाम

नवमः सर्गः समाप्तः ॥९॥