पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १८ )

लोकानां परदेशनिष्ठितवतां ध्यानात् पुमर्थं ददत्
सोऽयं भाति महीतले पृथुयशाः श्रीरामवत्सुन्दरः ॥ १२ ॥

मर्यादाकरणं जगद्धितकरो भिक्षागृहीतावनिः
पर्यन्तावनिनायकेभ्य इव वै विष्णुर्बलैर्वामनः ।
ग्रामे वासयिता चतुर्जनसमाज सौख्यभाजं सदा
कुर्वन् शिष्यजनस्य भाति हृदये कारुण्यवारां निधिः ॥ १३ ॥

तस्माद्राज्यपदं स्थितं स्वकगणे सोढीजनुर्धारिणि
दत्तं श्रीगुरुणा स्वभक्तिनिरतः स्त्रीणां गणैर्युक्तितः ।
सम्यक् प्रार्थनबोधितेन हि सदा संराजते भूरिशो
यूयं भो नमतेदृशं कुलहितं राजन्यशोभाधरम् ।। १४ ॥

आभात्यर्जुनसंज्ञकः क्षितिपतिः पञ्चस्थलेऽधिष्ठित
एकाहो नवमासिकं जिनशरद्राज्यं चकारातः ।
पुत्रं प्राप महोदयं च हरिगोविन्दाभिधानं सुधी-
र्यस्मिन् वाहगुरूमनुप्रकटितो नाम्नि स्थितस्तं नुमः ।। १५ ॥

साहस्रं भुजमण्डलं न वहति स्वीयं तथा कार्यक-
तेजो बाहुसहस्रकस्य वहिता यः सव्यसाचिद्युतिः ।
शस्त्रास्त्रव्यवहृत्यनन्तचतुरः श्रीमच्छिवाराधको
यन्नामग्रहणेन सिद्धिरखिला सत्सेवके सोऽर्जुनः ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचिते श्रयङ्के काव्ये
श्रीनानकाद्यर्जुनान्तानां राज्यादिव्यवहारनिरूपणं नाम

षष्ठः सर्गः समाप्तः ॥ ६॥