पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७ )

श्रीमद्ब्रह्मपराक्रमो हि महलेति ख्यापयन् भक्तितो
ज्ञानं भक्तिविरागयुक्तममलं सम्भाषते भापया ॥ ६ ॥

जातो वै बिहुणेतिजातिविमले क्षात्रे कुले सोऽङ्गदो
भूत्वा राज्यमखण्डितं च शरदां तवादशं मासपट् ।
घस्राणां नवकं चकार सुभगे क्षात्रे कुले लब्धवा-
नुद्वाहं सुतयोर्द्वयं जनितवान् दासू च दातू प्रथम् ॥ ७ ॥

शान्तर्णः पितृदैवतर्पिभजनानन्दं समादर्शयन्
भक्तांस्तारयति स्म सम्प्रचलितः काष्ठां परां भूतले ।
भाषाबन्धनकारकस्तु भगवान् माहात्म्यसंसूचको
मन्दानामधिकारिणां सुगहनं श्रीमत्पदं प्रापयन् ।। ८ ॥

भल्लासंज्ञकवाहुजो हमरदासो वासरग्राम के
वासी राज्यमबाप सो भुवितले श्रीगोंदवाले वसन्।
द्वाविंशं शरदां क्षितिक्षितिमिताहासकं पञ्चक
भक्तान् भक्त्युपदेशतश्च बिमलान् सन्तारयन् भूतले ॥ ९ ॥

क्षत्रज्ञातिकुले विवाहमकरोत् सन्तानसिद्धथै प्रभुः
तस्मात् पुत्रयुगं सुतायुतमभूत्तन्मोहरीमोहनम् ।
भानीसंज्ञकमाशुभूमिसुखदं पित्र्यणसम्मोक्षदं
विप्रज्ञात्यतिथीशपूजनरतः शिक्षन् जनान् सेवकान् ॥१०॥

सोढीजातिरनुत्तमः प्रियहितः श्रीरामदासोऽभवत्
सोऽयं तीर्थमिदं सुधासर इति प्रावयद् भूतले ।
षड्वर्षैकदशाख्यमासदिवसाष्टैकं च राज्यं महत्
कुर्वन्नुद्वहनं सुतत्रयमवापार्जुन्यपृथ्वीश्वरौ ॥ ११ ॥

संसारऋणमोचकं किल महादेवं तृतीयं सुतं
साक्षाच्छम्भुवदेव शोभितमहो कारुण्यपूर्णं पृथुम् ।