पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१२)

 हेमन्ते हिमपतनेन पीडितोष्ठा:
 पत्याख्या रजनिमहाविलासतृप्ताः ।
 रात्र्यन्ते विषधरवैरिनादतप्ता
 योषास्तद्विरहभयेन पीडितास्ताः ॥ ११ ॥

राज्यन्ते श्रुतसारिकाशुकरवा वैतालिकद्युम्नगी-
भेर्यादिध्वनिकर्णनेन चकिता गुर्वादिसद्वन्दनम् ।
कुर्वत्या बहुदासिका अपि पतीन् वन्दन्त एवाङ्गना
गार्हस्थ्ये सुखसंयुता इति महापुण्यद्रुमोत्थं फलम् ॥ १२ ॥

माघे पाश्चात्यभागेऽमृतसरसि सदा सम्प्लुता शीततोये
ग्रन्थश्रावैकयुक्ता गुरुकथितपदध्यानगाने रताश्च ।
द्रव्यत्यागेन तुष्टाः सदमरभजनानन्दतृप्ता जना यत्
कारुण्यात् श्रीगुरूणामभयवरदयादानशोभाकराणाम् ॥ १३ ॥

भैरव्या वेशयुक्ताः पटहडमरुकावादिनश्चन्द्रचूर्णै-
लिम्पन्त्योऽन्योन्यमास्ये भडउभडउवादेन सन्तुष्टचित्ताः ।
सन्ध्यानेहस्यतृप्ता बहुतणदहने होलिका दाहयन्तः
सर्वेषां रीतिरेवं प्रतिशरदमहो सर्वलोकाः सुखाड्याः ॥१४॥

सत्याहिंसावादम्भगुरुभजनशौचादिकाभ्यासयुक्ताः
सिंहाः शिष्याः सशस्त्रा रणकृतिनिरता नीचहिंसानुरक्ताः ।
पुत्रस्त्रीभ्रातृदासाननवरतमहो पालयन्ति स्वधान्यै-
रित्थं ये वर्तयन्ते त इह परगताः सौख्यकीर्तीष्टभाजः ॥१५॥

वासन्तीपुष्पमालाचमरविधुवनैर्गन्धधूपप्रदीपै-
रान्दोलन्तं वसन्ते रथकशिपुगतं पूजितं साधुवृन्दैः ।