पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(८)

उत्फुल्लत्सर्षपालीवसनरुचिमनङ्गास्पदं कामनीनां
शीर्षे सारिपिच्छे मृगमदतिलकं पूरयन्तं सुधाभिः ।
वंशीरन्ध्रात् व्रजस्त्रीकरगतजलयन्त्रादिभिः सिच्यमानं
गायन्तं पञ्चमं रागममलमघहं ब्रह्मरूपं नतोऽसि ॥५॥

श्रोताभिरामशब्दैर्मुरजमुखभर्तितः स्त्रीकदम्बो
मित्रेण ब्रह्मणानुग्रथितकुसुममालोऽपि पूज्येन देवैः ।
स्त्रीभावनात्तगवस्त्वरितविरहितः स्वामिना चेन्द्रियाणां
वृन्दारण्ये सुकूले तपनदुहितजे ब्रीडितः सम्मुमोह ।। ६ ।।

चक्षुःश्रोत्रोन्ववोचन्मम जननमभूभृमिरन्ध्र धिगेतत्
स्वर्गाधीशं स्वरूपेऽप्यवतरणपरेऽनेकमन्युर्बभूव ।
भूमीसंस्थो जनोऽयं मम जनिसफलत्वं जगादेति हृष्टो
दृष्ट्वा श्रीकृष्णरासं ब्रजभुविरचितं गोपिकागोपवृन्दैः ॥ ७ ॥

अस्तं याते विवस्वत्यरुणपनपटाच्छादिते शैशिरत्तों
पूर्वाशां प्रोद्यतीन्दौ सजलजलदसङ्घावृते स्पष्टतारे ।
सन्ध्याकाले समीरे लघु लघु नुदति प्रेयसी वा प्रियार्थे
कस्या नोच्छृङ्खलो वै भवति तरलितश्चित्तमातङ्गराजः ॥८॥

राधाया याहि गेहं मननविनतिभिः सान्त्वयस्व प्रियां तां
त्वद्वेशी गीतशब्दाद्विवशितधिषणायाः स्खलन्त्या गृहान्ते ।
नो चेत् क्रुद्धा भवेत् सा क्व तत्सुखततिश्चेति दूत्या स उक्तः
श्रीकृष्णः शीघ्रगामी व्रजसखिसहितः क्रीडनार्थं जगाम ॥६॥

खेखेलैः सञ्चरन् वै शशिमृगशिशुकः स्यन्दनाग्रे निबद्धो
गन्तुं शक्नो न चासीत् क्वणितपदरखाहूतचित्तोऽङ्गनानाम् ।
रासन्तीनां प्रियाश्लिष्टसुभगभुजलतानां लसत्पटीनां
तस्मिन् श्रोतुं प्रवृत्तेष्ट(स )ति शतदिवसा यामिनी सम्बभूव ॥१०॥