पृष्ठम्:श्रीसुबोधिनी.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
जन्मप्रकरणम्अध्यायः


त्वाय वत्सपदम् । समाधौ स्थितः समाधिनिर्वाहकं संसारमतितुच्छत्वेन मन्यते । सिद्धो योगः स्वयमेव सर्वमेव संसारं शोषयित्वा स्वनिर्वाहकमेव स्थापितवान् । न च ते महापुरुषा अन्येषामुद्धारमकृत्वा वत्सपदत्वमात्रे जातेऽपि स्वयमेव तरन्ति । अतो वत्सपदमेव कृत्वा यावदन्येषामुद्धारो भवति तावत् तूष्णीं तिष्ठन्ति । अत उक्तं, वत्सपदं कुर्वन्तीति ।। २९ ॥

 प्रमाणसमाप्तिः। तादृशेन प्रमाणेन यत् सिद्ध्यति तत् प्रमेयमाह-


 स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
 भवार्णवं भीममदभ्रसौहृदाः॥ ॥
 भवत्पदाम्भोरुहनावमत्र ते
 निधाय याताः सदनुग्रहो भवान् ॥ ३१ ॥


 स्वयं समुत्तीफ़्येति ॥ तीर्णस्यास्थापनेनैव वत्सपदकरणात् सम्पूर्णानुवादे सुदुस्तरं भवार्णवं भीममित्युक्तम् । मोक्षपतिपादकत्वात् सर्वशास्त्राणां मोक्षः सम्प्रदायश्च प्रमेयं भवति । स्वयं समुत्तीर्य भवत्पदाम्भोरुहनावम् अत्रैव निधाय ते याताः । सम्यगुत्तरणं दुर्घटत्वे सति वक्तव्यमिति दुर्घटत्वमाह ॥ समुद्रो हि दुस्तरः स्वतः । तत्रापि नक्रादिभिः कृत्वा सुदुस्तरः । व्यसनमृत्युजरादिभिरलौकिककरणसामर्थ्यघातकः । स्वतोऽपि भीमोभयानकः।। घुमन्निति सम्बोधनं,चरणस्त्रिविधदोषनिवारणसमर्थ इति ज्ञापयति । यथा सूर्योऽन्धकारं सर्वजगत्पूर्णं जाड्यं भयं च स्वत एव निवारयति । तथा त्वञ्चरणप्रसादात् तेऽपि संसारमुत्तीर्णाः । तर्हि कथमन्येषामुद्धारः, का वा अन्येषामुद्धारे तेपामपेक्षा ?। तत्परिहारार्थमाह ॥ अदभ्रसौहदा इति । अदभ्रमच्छिद्रं सफलं सौहदं येषामिति । अनेन पूर्वमेव कृतं-