पृष्ठम्:श्रीसुबोधिनी.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


त्वत्पादपोतेन भवाब्धिं गोवत्सपदं कुर्वन्ति । योगे प्रत्यक्षो भगवान् संसारात्तारयतीति सिद्धम् ।। अम्बुजाक्षेति दर्शनेनैव पापनाशकत्वम् उक्तम् । यो योगस्तृतीयस्कन्धे निरूपितः स सर्वात्मको भगवद्विषयकः । तदाह ॥ अखिलसत्त्वधाम्नीति ।। अखिलानां सत्त्वानां प्राणिनां धामस्थानम् । सर्वसत्त्वगुणनिधाने वा तादृशे भगवत्यासमन्ताद् वेशितं चित्तं यस्मिंस्तादृशेन समाधिना करणेन कृत्वा त्वत्पादः पोतो भवति । समुद्रतरणसाधनं पोतः । चरणस्य पृथ्वीरूपस्य आकाशरूपस्य वा अक्षररूपस्य वा पोतत्वम् । भूमिश्चेत् सर्वजनीना आकाशं च भगवद्भावकसमाधौ भगवति विद्यमाने पादस्य पोतत्वाभावात् समाधिकल्पितस्यैव च संसारमध्यपातात् कथं पोतत्वमित्याशङ्क्याह ॥ महत्कृतेनेति ॥ महद्भिः कृतेन । महान्तो हि सर्वस्यापि पदार्थस्य साध्यसाधनतामवगच्छन्ति । अतः समाधावेव भगवत्स्फूर्तौ स पादः संसारतारको भवतीत्यलौकिकसामर्थ्येन न युक्तिविरोधः शङ्कनीयः । अयं तु परमो धर्मो यद्योगेनात्मदर्शनमिति स्मृतेः । यथा यागादि स्वर्गसाधनं, तथेदमप्यदृष्टद्वारा भविष्यतीत्याशङ्क्या तनिराकरणार्थमपि, महत्कृतेनेत्युक्तम् । पादपोतो महान् कृतो हृदयं संसारपारं चाभिव्याप्य यथा तिष्ठति तावान् कृत इत्यर्थः । करणं समाधिरेव ॥ गोवत्सपदमिति ॥ तीर्णसंसारस्याऽऽस्थापितत्वाद्वत्सपदकरणम् । अनेन संसारे स्थिता एव संसारं तुच्छं मन्यन्ते । अनतिगम्भीर-'




 भगवद्भावकेत्यादि ॥ अक्षरपक्षेऽनुपपत्तिरियम् । भगवतः पुरुषरूपेणाविर्भावे ह्यक्षरस्य चरणरूपत्वम् । तदा भगवतैव तरणसम्भवे तावन्मात्रस्य तथात्वमयुक्तम् ॥ एतदेवोक्तम् , भगवतीत्यादिना ॥ न च तेन पुरुषेणापि तत्सम्भव इत्याह ॥ समाधिकल्पितस्यैवेति ॥