पृष्ठम्:श्रीसुबोधिनी.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
जन्मप्रकरणम्अध्यायः


मात्मानं लभन्ते । रूपाणां ग्रहणस्यान्यदपि निमित्तमित्याह ।। क्षेमाय लोकस्य चराचरस्येति ॥ चराचरशब्देन ब्राह्मणाः क्षत्रियाश्चेति न्यायविदः । चराः प्राणिनः, अचरा भूरादयः । उभयेषामपि क्षेमाय । अनेनैहिकफलदानार्थमपि भगवदवतार इति गुणैर्ब्रह्मादीनामपि भगवत्त्वाद्रजसा तमसाऽप्यवतारः सम्भवतीति तद्व्यावृत्यर्थमाह ।। सत्त्वोपपन्नानि लोकानुसारीणि मत्स्याऽऽदीनि । ब्रह्ममहादेवयोरप्याधिदैविकयोरप्यवताराः सत्त्वरूपा एव । तत्र निदर्शनं, सुखावहानीति ॥ ये सर्वप्राणिषु सुखमावहन्ति पक्षपातस्तोत्रत्वाद् दैत्यानामपि मुखदानि भविष्यन्तीत्याशङ्क्याह । सतामेव सुखदानि ।। खलानां त्वभद्राणि ।। लक्षणपूर्वकं दैत्यानां निर्देशः ॥ खलानामिति ॥ सर्वदोषनिधानं खलाः, ये परेभ्यो दुःखदातारः ॥ मुहुरिति ॥ सर्वेषां खलाना वारं वारम् ॥ २८ ॥

 एवं लौकिकप्रकारेण चतुर्णा निरूपणमुक्त्वा स्मृतिप्रकारेण


 त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
 समाधिनावेशितचेतसैके ॥
 त्वत्पादपोतेन महत्कृतेन
 कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ २९॥


 त्वयीति चतुर्भिः ॥ स्मृतिषु योगो धर्मः । स च योगो बहुविध इति यो देवहितो धर्मरूपस्तं निरूपयति। हे अम्बुजाक्ष । अखिलसत्त्वधाम्नि त्वयि समाधिना आवेशितचेतसा करणेन




 चराचरशब्देनेत्यादि ॥ यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन इति श्रुत्यर्थनिर्णयं कुर्वन् ,अत्ता चराचरग्रहणादिति सूत्रे विषयवाक्योक्तब्रह्मक्षत्रे चराचरशब्देन व्यासो वदति तथेति ज्ञेयम् ॥