त्रयो लोकास्त्रय आत्मानो भूरादयः कायादयश्च । ते उभयेऽपि
त्रिशब्देनोच्यन्ते । त्रयोऽपि सत्या यस्य । अनेन साधनफले
एकीकृत्य निरूपिते । एवं चतुर्द्धाऽष्टविधो निरूपित
उपपत्तिरूपः । उत्पत्तिरूपमष्टविधं निरूपयति। सत्यस्य
योनिमित्यादि। यत्पूर्वमष्टविधं सत्यमुक्तं तस्य सर्वस्यापि योनिः
कारणं भगवानेव कालात्मा। श्वो दास्यामीत्युक्ते यदि श्वो
नभवेद् वागसत्यैव स्यात् । एवं सर्वत्र । न केवलं
सत्यस्योत्पादकं, किन्तु सत्यस्य रक्षकमपि । तदाह ॥
निहितं च सत्य इति ॥ सत्ये नितरां हितो रक्षकः ।
स्वयं तत्र स्थित एव रक्षां करोतीति ।
निहितपदसमुदायार्थोऽपि । एवं सत्ये स्थित्वा सत्यं
पालयतीत्यर्थः। अनेन सत्यस्योत्पत्तिविचारे प्रमेयं
साधनञ्चोक्तम् इतराबान्तयोश्चकार इममेवार्थमाह ।
सत्यस्य प्रलयोऽप्यत्रैवेत्याह ॥
ध्यम् ॥ त्रिसत्यमिति पदार्थे भूरादित्रयं कायादित्रयं चेति द्वैविध्यम्।
एवमष्टविधत्वं सत्यस्य भगवतः कालरूपस्य । यदि सत्यरूपत्वं न
स्यात्तदा लोके व्रतादिकं नियामकं च वैदिकं च द्वादशविधं
भगवद्व्रतानि च लोकाश्चात्मादयश्च न स्युरित्युपपत्तिरूपत्वम् । व्रतं हि
उपोषणादिरूपमहोरात्रादिसाध्यम्। सत्यमपि
तप्ततैलादिऽष्वप्यदाहोऽत्युत्कटपापेऽल्पनैव कालेनानिष्टमनुत्कटत्वे
चिरेणेत्यादि ।। अन्यत् स्पष्टम् ॥ लौकिकमुक्तद्वादशविधं वैदिकं
चेति द्विविधम् ॥ भगवदीयं व्रतं नियामकं चेति द्विविधम् । लोका
भूर्भुवःस्वर्लक्षणाः । आत्मानः कायजीवपरमात्मानः । लोकाः
फलरूपाः । इतरे त्वितराणि । इदंच द्विविधम् । एवमष्टविधत्वं
सत्यस्योक्तभेदेन पदद्वये विधेयभेदेन द्वैविध्यम् । त्रयं च द्विविधम् ।
एवं चतुर्विधत्वम् ॥ इतराविति ॥ प्रमाणफललक्षणावर्थावित्यर्थः ॥
आद्यन्तयोरिति ॥ सत्यात्मकमित्यन्तिमेन पदेन फलम् । एतस्मादाद्येन,
ऋतसत्यनेत्रमित्यनेन प्रमाणमित्यर्थः । भगवत्स्वरूपज्ञानशक्त्योः
फलत्वप्रमाणत्वे प्रसिद्ध । अथवा सत्यस्य योनिमित्यनेन प्रमाणम् ।
सत्यस्य सत्यमित्यनेन फलम् ।