हेत्याश्चर्ये ॥ सर्वेषु भगवान् यद्यपि वर्तते तथापि नैवं
तेजोऽन्यत्रेति ॥ १६ ॥
षट्पुत्रवधात् पूर्वमेव सङ्कर्षणगर्भस्ततः प्रभृतिनिगडगृहीता एव । अतः प्रकारान्तरेण स्वस्मिन् विद्यमानं भगवन्तं देवक्यामानीतवानित्याह-
ततो जगन्मङ्गलमच्युतांशं
समाहितं शूरसुतेन देवी ॥
दधार सर्वात्मकमात्मभूतं
काष्ठा यथानन्दकरं मनस्तः ॥ १७ ॥
तत इति ॥ यद्यपि स्वस्मिन्नेव स्थापनमुचितं, तथापि
सर्वलोकरक्षार्थं देवक्यां स्थापितवानिति ज्ञापयितुमाह ॥
जगन्मङ्गलमिति ॥ जगतामेव कल्याणभूतम् ।
नन्वेवमागमनावेशप्रवेशनिर्गमनेष्वन्यथाभावो न्यूनाधिक्यं वा
भविष्यतीत्याशङ्क्याह ॥ अच्युतांशमिति ।। अच्युतश्वासावंशश्च ।
षष्ठ्यर्थेऽपि तदर्थमेव विशेषणम् । सम्यगाहितमिति ।
वैधदीक्षाप्रकारेण । वस्तुतस्तु समाधौ देवकीं भावयित्वा
मनसैव तत्र साक्षात् तेजः स्थापितवान् ॥ शूरसुतेनेति ॥
विवेकार्थं पितृनाम्ना निर्देशः ॥ देवीति ।। तस्या अन्तःप्रवेशेन
समाधावपि तत्तेजोग्रहणसामर्थ्यं द्योतितम् । इयं हि देवतारूपा ।
देवतायाश्च तथा सामर्थ्य सिद्धमेव । अत एव दधार ।
नन्वेवं परधृतत्वे ब्रह्मत्वं भज्येतेत्याशङ्क्याह ॥ सर्वात्मकामिति ॥
स हि सर्वेषामात्मभूतः सर्वैरेव धियते इति धारणं न दोषाय ।
तथापि प्रकृते चैतन्यं बीजं वा
मानसं प्राप्य तिष्ठतीति दूपणमेवेतिचेत्तत्राह ॥ आत्मभूतमिति ॥
देवक्यामात्मरूपेणैव प्रविष्टो, न तु बीजे चैतन्ये वा प्रविश्य तत्र
प्रविष्टः । यथा ज्ञानेन स्वात्मानं विभत्तिं अयमहमात्माधार इति