तन्मातराविति शुकवाक्यं च विरुद्ध्येत । माययैव रूपान्तरमिति
मायानिरूपणेनैव चतुर्थाध्याये तस्योत्पत्तिनिरूपिता ।
उत्पत्तेरनन्तरमेव, नन्दस्त्वात्मज उत्पन्न इति संभ्रमः । एवं सति
सर्वेषां चरित्राणामभिनिवेशो भवति । जननं मनस इति मन
उक्तम् ॥ १५ ॥
आविष्टे भगवति यादृशो जातस्तं वर्णयति-
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः॥
दुरासदोऽतिदुर्धर्षों भूतानां संबभूव ह ॥१६॥
स विभ्रदिति ॥ पुरुषस्य भगवतो धाम तेजः आत्मनि
विभ्रदिति स्वतोऽपि स्वकान्तिसामर्थ्यादधिकानुभावो निरूपितः ।
तदा राजमानो जातः । यथा रविरिति सर्वेषां प्रतीत्यर्थमेवोक्तम् ।
अथवा द्वादशविम्बान्येव तिष्ठन्ति । येषु पुनर्यदा
प्रविशति तदा स प्रकाशते तद्वत् । तदा तस्य कंसादीनां भयं
निवृत्तमिति ज्ञापयितुमाह ॥ दुरासद इति ॥ कोऽपि निकटे
गन्तुं न शक्नोति । न वा अधिक्षेपं कर्तुम् । अतः क्लेशो दूरे
ज्ञापितः । भूतानां सर्वेषामेव दुष्टानां राक्षसादीनां सम्यग् बभूव
इति न कोऽपि परीक्षार्थमपि बलादप्यागन्तुं शक्त इत्युक्तम् ।।
उक्तः । पूर्वरूपस्य तिरोधानेऽप्यग्रिमकार्यार्थं स्वस्मिन्नेव स्थापितवान् ।
यतो मुक्तिभूभारहरणवंशसम्बन्धित्वेनाविर्भावपित्रादिसुखदानवेमार्गरक्षानारद-
शापविमोकद्विजसंमाननादिकार्याणि वासुदेवाऽऽदिमूर्तिनियतकारणकानि ।
उक्तकार्याण्यग्रे स्पष्टानि । एतदेवोक्तम् एवं सति सर्वेषां चरित्राणामभिनिवेशो
भवतीत्यनेन । अत्र श्रुताऽर्थापत्तिरेव मानमिति नानुपपत्तिः काचित् ॥
रूपान्तरमिति ॥ रूपान्तरत्वेन भानमित्यर्थः । तच्च मानुषत्वम् । तथाच
शुद्ध पुरुषोत्तम एव तथा भानस्याग्रे वाच्यत्वान्मायानिरूपणेन
तन्नियतकार्यविषयस्याप्युत्पत्तिनिरूपिता भवतीत्यर्थः ॥