पृष्ठम्:श्रीसुबोधिनी.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
जन्मप्रकरणम्अध्यायः



 भगवानपि विश्वात्मा भक्तानामभयङ्करः॥
 आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १५ ॥


 आविवेशेति,सार्द्धभ्याम्। निषेकाभावेऽपि पूर्वM वसुदेवे ततस्तद्द्वारा देवक्यामागमनस्यायं भावः । अत्र हि न नृसिंहहंसादिवत् प्राकTट्यम्, किन्तु यदुवंशसम्बन्धित्वेन शूरपौत्रत्वेन वसुदेवपुत्रत्वेन । जीवे शरीरस्यैव वंशसम्बन्धित्वेन तस्य च निषेकजन्यत्वेन तथोत्पत्तिरुच्यते । ईश्वरे प्राकट्यस्यैवोत्पत्तिपदार्थत्वाद्वक्ष्यमाणप्रकारेण वसुदेवद्वारा देवक्यामाविर्भाव उच्यते । अन्यथा देवक्यामेव तथोच्यतेति । आनकदुन्दुभेर्मनो भगवान् आविवेश । अयोगोलके वह्निरिव । अन्यथा आनकदुन्दुभित्वं व्यर्थं स्यात् । अंशानां भागेन विभागेन । केचित्तु अंशेन नारायणरूपेण, भागेन केशवरूपेण सह स्वयं प्रद्युम्न आविवेशेत्याहुः । पुरुषोत्तमस्तु नन्दगृह एव मायया सह जातः । अन्यथा, देवकीजठरभूरितिवत् , तव सुत इति कथं वदेयुः।




एवं सति यस्मादानन्तर्यं प्रभुबुद्धिस्थं स पदार्थो गर्मे प्रणीत इति श्लोकेन विवृतः श्रीशुकेन । आचार्यैरपि तमेवाथशब्दं प्रतीकत्वेनोकत्वा, गर्भइतिश्लोकोक्ततात्पर्यमाक्रोशानन्तरमित्यादिनाऽनूदितम् । अयमर्थो भगवतोऽत्यन्तं गोपनीय इति तत्सम्पत्तिलॊकानामन्यथाज्ञानोक्त्या तत एव तदज्ञानसूचनेन च शापितेति सर्वमनवद्यम् ॥

 पुरुषोत्तमस्तु नन्दगृह एवेत्यादि,भवतीत्यन्तम् ।। अत्रायं भावः। उक्तवाक्यानुरोधान्नन्दगेहे पुरुषोत्तमाविर्भावोऽवश्यमङ्गीकार्यः । एवं सति, सुतं यशोदाशयने निधायेत्यग्रिमवाक्यं चानुपपन्नं भवति ॥ तत्र स्वरूपद्वयदर्शनप्रसङ्गात् । आगतस्य तिरोधानं न वक्तुं शक्यमागमनवैयर्थ्यापातात् । प्रागयं वसुदेवस्येतिवाक्यविरोधश्चेति उभयतस्पाशा रज्जुरितिचेत् । अत्र ब्रूमः । नन्दगेहे प्रादुर्भूतस्यैव पुरुषोत्तमस्य सर्वतःपाणिपादान्तत्वेन तदा कार्यमस्तीति वसुदेवगृहे प्रादुर्भाव इति ज्ञायते । स एव, बभूव प्राकृतः शिशुरित्यनेन