श्रीशुक उवाच ॥
संदिष्टैवं भगवता तथेत्योमिति तद्वचः ॥
प्रतिगृह्य परिक्रम्य गां गता तत्तथाऽकरोत् ॥ १३ ॥
संदिष्टैवमिति ॥ भगवतेत्यनुल्लङ्घनार्थः । तथेति करणाऽर्थं, जननार्थं च । ओंमिति पूजाद्यर्थम् । तस्य भगवतो वचः परिगृह्य परिक्रमणं कृत्वा गां भूमिं गता सती तथैवाकरोत तत्सर्वं भगवन्निर्दिष्टम् ॥ १३ ॥
तत्कार्यं लोके प्रसिद्धं जातमित्याह-
गर्भे प्रणीते देवक्या रोहिणी योगनिद्रया ॥
अहो विस्त्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥१४॥
गर्भे प्रणीत इति । गर्भे प्रकर्षेण नीते रोहिण्युदरं प्रापि-
ते ॥ योगनिद्रयेति कर्षणप्रापणयोः सर्वाज्ञानं निरूपितम् । अहो
इत्याश्चर्ये । विस्रंसित इति ॥ स्रंसु ध्वंसु अधःपतने । तेन पञ्चमो
मासः षष्ठो वेति ज्ञापितम् । पौराः पुरवासिनः । अनेन
सर्वप्रतीतिर्जातेत्युक्तम् । राक्षसैः कंसप्रेरितैर्विस्रसित इति विचुक्रुशुः ।
अत्याक्रोशं कृतवन्तः ॥१४॥
अथाक्रोशानन्तरं विप्रेसनज्ञानानन्तरमेव भगवान् वसुदेवद्वारा देवक्यामागत इत्याह--
अथाक्रोशानन्तरमित्यादि ॥ ननु मूल एतदानन्तर्यवाचकपदाभावात्
स्वयं तत्कथनमनुपपन्नमिति भातीतिचेन्मैवम् । भावानववोधात् । तथाहि ।
इह हि शीघ्रं स्वागमनार्थमेव गर्भकर्षणाज्ञापनम् । तत्तु, गां गता
तत्तथाकरोदित्येतावतैव निरूपितमभूत् । आक्रोशस्तु प्रकृतानुपयुक्तः ।
एवं सत्यपि गर्भे प्रणीत इति श्लोककथनं
यत्तद्भगवद्वाक्यस्थाऽथशब्दतात्पर्यकथनायेति ज्ञायते । अन्यथा, तत्
सन्निकृष्य रोहिण्या उदरे सन्निवेशयेत्युक्ते प्रयोजनाकाङ्क्षायामहं
देवक्याः पुत्रतां प्राप्स्यामीत्येतावतैव चारितार्थ्यादथशब्दं न वदेत्।।