पृष्ठम्:श्रीसुबोधिनी.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
जन्मप्रकरणम्अध्यायः । १ ।


भवेत् ।। पूर्व सामान्यतो विरोधमुक्त्वा शीघ्रं भगवदागमनार्थं लोके कंसकृतमत्युपद्रवमाह सार्द्धैस्त्रिभिः-


श्रीशुक उवाच ॥


 प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।।
 मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः॥ १॥


 प्रलम्बेति ॥ प्रलम्बो दैत्यो दैत्यरूपेणैव वर्तते । बको दैत्यः पक्षिरूपेण । चाणूरो दैत्यो मनुष्यरूपेण । तृणावर्ती राक्षसो वात्यारूपेण । एत एव महाशनाः। बहुभक्षकाः । अनेन यदूनां कदनं चक्रे इत्यत्र यादवा भक्षिता इत्यपि ज्ञापितम् । महाशनोऽघ इति केचित् । तत्र नामसु यौगिकप्रवेशश्चिन्त्यः । मुष्टिकश्चाणूरवत् । यथा प्रलम्बो बलभद्रहतः प्रथमनिर्दिष्टस्तथा मुष्टिकोऽपि । अरिष्टो वृषरूपो बकवत् । द्विविदो वानरः । पूतना राक्षसी । केशी अश्वात्मकः । धेनुको गर्दभात्मकः ॥१॥


 अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ॥
 यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २ ॥


अन्ये चैवंविधाः शतशः सन्ति । असुरा भूत्वा ये भूपालाः। बाणो बलिसुतः । नरको भौमः । आदिशब्देन जरासन्धादयः गुप्तान् यदून् प्रलम्बादयो बाधन्ते । प्रकटान् बाणादयः । एवमेतैर्यदूनां कदनमन्यायनाशं चक्रे । एतेषामाज्ञाकारित्वे हेतुः ॥



स उच्यत इत्यर्थः ॥ अथवा महत्त्वं पुरुषोत्तमत्वं तज्ज्ञापनाय सविशेषणः स उच्यत इति सम्बन्धः । असाधारणत्वेनेतरेभ्यो व्यावर्तको धर्मो हि विशेषणम् । तदत्र मायाज्ञापनमेकम् । न हि ब्रह्मादिव्यामोहिकां तामन्य आज्ञप्तुर्महति, सान्याधीना वा भवति । वसुदेवदुरासदत्वादिकं, देवक्यां स्वहन्तृज्ञानेऽप्यासुरभावत्याजनं कंसस्य, ब्रह्मादिस्तुतिश्च ॥