पृष्ठम्:श्रीसुबोधिनी.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे



 उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ॥
 स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ॥ ६९॥


इति श्रीभागवते महापुराणे दशमस्कन्धे जन्म-

प्रकरणे हेतुनिरूपणं नाम प्रथमोऽध्यायः॥१॥


 उग्रसेनमिति ॥ नाम्नैव महत्त्वं निरूपितम् । स्वस्य पितरं सर्वसहाययुक्तम् । यदुभोजान्धकाधिपम्।। यदवो भोजा अन्धकाश्च उपलक्षणमेतत् षड्विधानामपि यादवानाम् । तदाज्ञया ते सर्वे विपरीतं करिष्यन्तीति विशेषतस्तस्य बन्धनम् । बन्धकः स्वयमेव जात इत्याह। स्वयं निगृह्येति ।। शूरसेनदेशस्तस्य भोगार्थ स्थितः अतस्तस्य पुनर्वचनं, शूरसेनान् बुभुजे इति ॥ एतत्सर्वकरणे सामर्थ्य, महाबल इति ॥ एवं सर्वेषां देवांशानां भक्तानां महानुपद्रवो निरूपितो भगवदवतारे हेतुभूतः ॥ ६९॥


इति श्रीभागवतसुबोधिन्यां श्रीवल्लभदीक्षितविरचितायां

दशमस्कन्धविवरणे प्रथमोऽध्यायः ॥ १० ॥१॥


द्वितीयोऽध्यायः ॥ २ ॥


 एवं हेतुं निरूप्याथ कृष्णोद्यम उदीयते । महत्त्वज्ञापनार्थाय
द्वितीये सविशेषणः ।। दुःखं हेतुरिहागन्तुमिति बोधाय तत्कथा ।
पुनर्निरूप्यते स्पष्टा शीघ्रागमनहेतुका ॥ सर्वेषां ज्ञापनार्थाय
कंसवाक्यं तथा स्तुतिः *। अन्यथा भगवानेव प्रादुर्भूतः कथं



द्वितीयाध्यायार्थोक्तौ, कृष्णोद्यम इत्यादि ॥ भगवदुद्यमे हेतुमाहुः ।। महत्त्वति ॥ हेतोरिति शेषः । अत एव तावन्तमपि विलम्बमसहिष्णुगर्भकर्षणमाज्ञप्तवान् । न ह्येवमन्यत्रेति भावः ॥ अथवाऽन्येभ्योऽवतारेभ्योऽत्र महत्त्वज्ञापनाय मायाशापनवसुदेवादिमनःप्रवेशलक्षणः