सत्त्वगुणोऽपेक्षितः ॥ ३४ ॥** ॥** ॥ एवं प्रमाणप्रमेये
वैदिकप्रकारेण भगवद्रूपेण भगवद्रूपे विचारिते । साधनं
विचारयति-
न नामरूपे गुणजन्मकर्मभि-
निरूपितव्ये तव तस्य साक्षिणः ॥
मनोवचोभ्यामनुमेयवर्त्मनो
देवक्रियायां प्रतियन्त्यथापि हि ॥ ३५ ॥
न नामरूपे इति ॥ वैदिकमार्गाऽनुसारेण साधनं
भगवान् सर्वपुरुषार्थेषु । स च गुणातीत एव । वेदे गुणाभावात्
फलदानार्थ परं भगवान् देवपक्षपातार्थं तथा कृतवान् । अतः
सगुणः साधनामिति पक्षं निराकरोति ।। न नामरूपे इति ॥ ते
नामरूपे गुणकर्मजन्मभिर्न निरूपितव्ये । साक्षी भगवान्
सर्वकर्मफलदाता कर्माऽध्यक्षः । स एव साधनम् । गुणैः कृत्वा
यानि कर्माणि जन्मानि च तानि तव न सन्त्येव, किन्तु
क्रियाशक्त्यैव सद्रूपया धर्मरूपेण प्रकटस्य तवाऽऽविर्भावः कर्माणि ।
आनन्दरूपेण प्रकटस्य च जन्मानि, तैरेव च नामरूपे ।
अन्यथा प्राकृतत्वे सति न कोऽपि पुरुषार्थः सिद्ध्येत् ।
भवतु वा भगवतः कल्पान्तरे तथा भूते अपि, न तु शास्त्रे
साधनत्वेन निरूपितव्ये । तदा तस्य फलदातृत्वं न स्यात् ।
कर्माध्यक्षत्वाभावात् । किञ्च, सगुणं चेन्मनसा वचसा च
व्याप्यं भवति । ततो मानसं वाचनिकमेव फलं प्रयच्छेद्,
न त्वात्मरूपं भगवद्रूपं वा । भगवांश्च, मनोवचोभ्यामनुमेयमेव
तर्क्य॑मेव वर्त्म यस्य तादृशो,न तु प्रत्यक्षविषयः। यतो वाचो
निवर्तन्ते अप्राप्य मनसा सह, पराश्चि खानि व्यतृणत्
स्वयम्भूरित्यादिश्रुतिवाक्यैः । तर्हि नामरूपाण्येव न
सन्तीतिचेत्तत्राहुः । देवक्रियायां प्रतिय-