तच्च ज्ञानं न विषयविषयिभावेन । तादृशस्य पुरुषार्थासाधकत्वं
पूर्वमुक्तम् । आविर्भावस्तु भगवतः स्वरूपस्य वा
शुद्धसत्त्वव्यतिरेकेण न सम्भवति । यदि ज्ञाने सत्त्वापेक्षा, सुतरां
तपसि तदपेक्षेति न तत् पृथग निरूपितम् ॥ न चेद् भवेदिति
इत्पदव्यतिरिक्तं सर्वमावर्तते । अर्थवशात् पदानां व्यवस्था ।
अज्ञानभिद्विज्ञानं मार्जनमापेति न व्याख्यानम् । नन्वस्य सत्त्वस्य
स्वतो ज्ञानरूपत्वाभावात् साधने उपयोगः । यद्यन्यथैव
भगवदाविर्भावो भवेद्, आत्मनो वा तदा किं सत्त्वेन । तत्र
इन्द्रियाणां प्रकाशो लोकदृष्टः स्वकारणप्रकाशमाक्षिपति । तत्र
प्रवर्तकस्य भगवतोऽभिमानिनो जीवस्य च प्रकाशोऽवश्यं भावी।
अतस्तदनुसन्धानेनैव तद्व्यवधायकमलनिवृत्तौ तदुभयोः प्रकाशो
भविष्यतीति व्यर्थं सत्त्वमितिचेत् तत्राह ॥ गुणप्रकाशैरनुमीयते
भवानिति ॥ गुणानामिन्द्रियविषयादीनां प्रकाशैर्ज्ञातैः
प्रेरकोऽभिमानी च अनुमीयते, अस्तीति । स ह्यनाविर्भूत एव
तथा करोति । आविर्भावस्तु केन कर्त्तव्यो भवेत् । न च
स्वरूपसत्त्वं, कार्यकारणं वा प्रकृते प्रयोजकम् । आविर्भावस्तु
सत्त्वाधीन इति पूर्वमवोचाम । न च प्रकाशोऽपि कार्यव्यतिरेकेण
न सम्भवति । अन्यथा गुणप्रकाशो न भवेदिति वक्तव्यं यस्य
सम्बन्धी वा गुणः प्रकाशते, येन वा गुणः प्रकाशते । न तु
सम्बन्धिनः करणस्य वा प्रकाशमपेक्षते । अतः प्रकाशार्थमवश्यं
वानासेतिश्रुतेर्ब्रह्मात्मकम् । अतस्तत्त्वेन स्फूर्तिः फलमिति भावः ।।
इत्पदव्यतिरिक्त्त्मिति ॥ नचेदित्यत्र यदित्पदं तध्यतिरिक्तमित्यर्थः॥
अशानभिद्विज्ञानं मार्जनमापति न व्याख्यानमिति ॥ क्रियापदस्य
समानलकारेणैवान्वयनियामान्मार्जनमाप्नुयादिति भवेत् । स्वोक्ता
शङ्काया अनिवृत्तेश्च स्वव्याख्यातशास्त्रार्थाप्राप्तेश्चेति भावः ।।