स्वोपज्ञलघुवृत्तिः (५६३) किञ्चिदसमाप्तौत् त्याद्यन्तत् तमश्नन्द्यन्तवदेते स्युः। पचतिकल्पम् , पचतिदेश्यम् , पचतिदेशोयम् , पङकल्पपटुदेश्या, पटुदेशश्च ।। ११ ।। , नाम्नः प्राग् बहु । ७।३। १२ । ईषदपरिसमासाद्यात् नाम्नः प्राग् बहूर्वा स्यात् । बहुपटुःपटुकल्पः ।। १२ ।। न तमवादिः कपोऽच्छिन्नाऽऽदिभ्यः।७।३।१३। । छिन्नादिचर्चा दू यः कप् , तदन्तात् तमवादिनं स्यात्। अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नदिभ्य इति किम् ? छिन्नकतमः ।। १३ ।। अनस्यन्ते । ७ । ३ । १४ ।। अनत्यन्तार्थात् कचन्ता तमवादिनं स्यात् । इदमे षामनयोर्चा प्रकृष्टं छिन्नकम् , भिन्नकम् ।। १४ ।। यावाऽऽदिभ्यः कः । ७ । ३ । १५। स्वार्थे कः स्यात् । याचकःमणिकः ॥ १५ ॥ कुमारीक्रीडनेयसोः । ७ । ३ । १६ । कुमारीणां यत् क्रीडनं तदर्थाद्ईयस्वन्ताच्च स्वार्थे कः स्यात् । कन्दुकः, श्रेयस्कः ।। १६ ।। लोहितात् मणौ । ७ । ३ । १७ ।। अस्मात् मण्यर्थात् स्वार्थे को वा स्यात् । लोहितको मणिः, लोहितो मणिः ॥ १७ ॥ रक्ताऽनित्यवर्णयोः । ७ । ३ । १८।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/७०३
दिखावट