सामग्री पर जाएँ

पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२) हेमशच्दानुशासनस्य द्वितीयान्ताद् यज्ञादर्हति इयः स्यात् । यज्ञियो देशः । पात्रात् तौ । ६ । ४ । १८०। द्वितीयान्तात् पात्राद् अर्हति य-झ्यौ । स्थताम् पात्र्यःपात्रियः ॥ १८० ॥ दक्षिणा-कडङ्गरस्थालीबिलाद् ईय-यौ ।६।४१८१ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थं ययौ स्याताम् । दक्षिणीयो, दक्षिष्यो गुरुः, कडङ्गरीयःकडङ्कर्यों गौ, स्थालीबिलीयाःस्थालीबियास्तण्डुलाः ॥ १८१ ॥ छेदाऽऽदेर्नित्यम् । ६ । ४ । १८२ ।। अस्माद् द्वितीयान्तात् नित्यमर्हति यथोक्तं प्रस्यथः स्यात् । छेदिक, नैदिकः ॥ १८२ ॥ विराग विरङ्गश्च । ६ । १ । १८३ ।। अस्माद् द्वितीयान्तानित्यमर्हति यथोक्तं प्रत्ययः स्यात् , तद्योगे चास्य विरङ्गः । वैरङ्गिकः ॥ १८३ ॥ शीर्षच्छेदाद् यो वा । ६ । ४ । १८४ । अस्माद् द्वितीयान्तान्नित्यमर्हति यो वा स्यात् । शीर्षच्छेद्यः, शीर्षच्छेदिकश्चौरः ।। १८४ ॥ शालीनकौपीनाऽऽर्विजोनम् । ६ । ४ । १८५ । एते तमर्हतीत्यर्थं नयन्ता निपात्याः । शालीनोऽधृष्टः, कौपीनं पापकर्मादिःआविीनो यजमान ऋत्विग्वा । इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधा नस्वोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठोऽध्यायः समासः ।। ६ । ४ ।। ॥ इति षष्ठोऽध्यायः ॥