सामग्री पर जाएँ

पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वोपज्ञलघुवृत्तिः (४६३) अस्मात् तत्रभवे इकः स्यात्, रूढौ गम्यायाम् । अन्तःपुरिका । रूढाविति किम् ? आन्तःपुरः ।। १४० ।। कर्ण-ललाटात् कल् । ६ । ३ । १४१ । आभ्यां तत्रभवे कच् स्यात्, तदन्तस्य रूढौ । कर्णिका कर्णाऽऽभरणम् , ललाटिका ललाटमण्डनम् ॥ १४१ ॥ । तस्य व्याख्याने च ग्रन्थात् । ६ । ३ । १४२ ।। तस्येति षड्यन्ताद् व्याख्यानेऽथ, सप्तम्यन्ताच्च भवे ग्रन्थाश्च यथाविहितं प्रत्ययः स्यात् । कत्र्तम्, प्रातिपदि कीयं व्याख्यानंभवं वा ।। १४२ ।। प्राय बहुस्वरा इकण् । ६ । ३ । १४३ ॥ बहुस्वराद् ग्रन्थार्थं तस्य व्याख्याने, तत्र भवे च प्रथ इकण् स्यात् । प्रावणस्त्विकम् । प्रायोग्रहणात् सांहितम् ।। १४३ ॥ -ऋद्द्विस्वरयागेभ्यः । ६ । ३ । १४४ । ऋचन्ता, तदन्तद्छिबराद् यागार्थेभ्यश्च ग्रन्थवृत्ति भ्यस्तस्य व्याख्यायने तत्र भवे चेकण् स्यात् । आर्चिकम्, चातुहतृकम् , आङ्गिकम् , राजसूयिकम् ॥ १४४ ।। ऋषेरध्याये । ६ । ३ । १४५ ।। ऋष्य ग्रन्थवृत्तेस्तरस्य व्याख्याने तत्र भवे चाऽ ध्याये इकण् स्यात् । वशिष्ठिकोऽध्यायः । अध्याय इति किम् १ वाशिी ऋक् ॥ १४५ ॥ १ प्रन्थ शब्दसन्दर्भ । स व्याख्यायते येन तद् व्याख्यानम् । चकारेण तत्र भव ईत्यनुऋत्ति , वाक्यार्थसमीपं चार धूयमाण पूर्वयाघयर्थमेव समुचि नतीतिवत्रना । कृता व्याख्यान, कृत्सु भव वा कर्तम् ।