सामग्री पर जाएँ

पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४३) स्त्रोपल्घुवृति’ प्रथमान्ताद् योद्ध्र्थात् प्रयोजनार्थाच षष्ठयथ युद्धे यथाविहितं प्रत्ययः स्यात्। वैयाधरं युद्धम् , सौभद्रे युद्धम् ॥ ११३ ॥ भावघनोऽस्यां णः । ६ । २ । ११४ । भावे घञ्जन्तात् प्रथमान्तादस्यामित्यर्थे णः स्यात् । भापाता तिथिः । भावेति किम् ? प्राकारोऽस्याम् ॥११४ श्येनपाता-तैलम्पात। ६ । २ । ११५। इयेनतिलयोर्भावे घस्रन्ते पाते परे मोऽन्तः स्यात् । श्यैनम्पाता, तैलम्पाता तिथिः क्रियाभूमिः क्रीडा वा । प्रहरणात् क्रीडायां णः। ६ । २ । ११६ । प्रहरणार्थात् प्रथमान्तादस्यामिति क्रीडायां णः स्यात् । दाण्डा क्रीडा । क्रीडायामिति किम् ? खङ्गः अहरणमस्यां सेनायाम् ॥ ११६ ॥ तद् वेत्त्यधीते । ६ । २ । ११७ । तदिति बित्तीयान्ताद् वेति अधीते वा इत्यर्थयोर्यथा विहितं प्रत्ययः स्यात् । मोही, छान्दसः ॥ ११७ ॥ 'न्यायादेरिक । ६ । २ । ११८ । एभ्यो वेश्यधीते वेत्यथ इकण् स्यात् । नैययिक, नैयासिकः ।। ११८ ॥ पद-कल्प-लक्षणन्तकवख्यनाऽऽख्यायं- कात् । ६ । २ । ११९ । १ न्यासं वेत्ति अधीते चेति नैयमिक । छन्दोऽधीते छन्दसः। णो वृद्धयर्थं ।