( ४२४) हैमशब्दनुशासनस्य s द्वन्द्व ईयः । ६ । २ । ७ । चन्द्रयुक्तं यन्नक्षत्रं तदद्याद् द्वन्द्वात् दन्ता युक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ॥ । ७ ॥ श्रवणाऽश्वत्थात् नाम्नि अः। ६ । २ । ८ । चन्द्रयुक्तार्थात् श्रवणादश्वत्थाच टांन्ताद् युक्ते काले थै संज्ञायामः स्यात् । श्रवणा रात्रिःअश्वत्था पौर्ण मासी । नानीति किम् ? श्रवणमहः । आश्वत्थमहः ।। ८॥ षष्ठ्याः सहे । ६ । २ । ९ । षष्ठशून्तात् समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः । चापम् , स्त्रैणम् ॥ ९ ॥ भिक्षाऽऽदेः। ६ । २ । १० ।। एभ्यः षष्ठ्यन्तेभ्यः समूहे यथाविहितं प्रत्ययः स्यात् । भैक्षम्, गामिणम् ।१० क्षुद्रकमालवात् सेनानाम्नि । ६ । २ । ११ । अस्मात् षष्ठ्यन्तात् समूहेऽण् स्यात्, सेनासंज्ञा याम् । क्षौद्रकमालवी सेना ।। ११ ।। गोत्रोक्षवत्सोष्ट्रधूद्धाऽजोरञ्ज-मनुष्यराज राजन्यराजपुत्राकम् । ६ । २ । १२ ।। गोत्रप्रत्ययान्ताद् उदेश्च समूहेऽकम् स्यात् । गार्ग- कम्, औक्षकम्, वात्सकम् , औष्ट्रकम्, वार्डकम् आजकम् , औरञ्जकम् , मानुष्यकम् , राजकम् राजन्य कम् १ राजपुत्रकम् ।। १२ ।। केदारात एयश्च । ६ । २ । १३ ।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५६४
दिखावट