(४१६) हैमशब्दानुशासनस्य द्विस्वरादणन्तादपत्ये आयनिब् स्यात् । कार्तायणिः ।। १०९ ॥ अवृद्धाद् 'दोर्नवा । ६ । १ । ११० ।। अवृद्धौ दोरपत्ये आयनिंबू व स्यात् । आम्रगुप्ता यनिः, आम्रप्तिः ॥ ११० ॥ पुत्रान्तात् । ६ । १ । १११ । पुत्रान्ताद् दोरपत्ये आयनि वा स्यात् । गार्गीपुत्रा- यणिः, गार्गीपुत्रिः ।। १११ ।। चर्मि-वर्मि-गारेट-कार्कट्यकाक-लङ्-वकिनात् च कश्चन्तोऽन्यस्वराव । ६ । १ । ११२-। एभ्यः पुत्रान्ताच दोरपत्ये आयनि वा स्यात्, तद्योगे कश्चन्तोऽन्त्यस्वरात् । चर्मिकार्याणिः, चर्मिणः । बार्मिकायणैिः, वार्मिणः । गारेटकायनिः, गारेटिः । कर्कट्यकायनिः, कार्कट्यायनः । काककायनिः, काकिः । लाक्कायनिः, लाबेयः । किनकायनिः, चोकिनिः । गार्गीपुत्रकायणिः, गार्गीपुत्रिः ।। ११२ ॥ अवोरायनिः प्रायः । ६ । १ । ११३ । अदोरपत्ये आयनिशं स्यात्, प्रायः । ऋचुकायनिः, ग्लौचुकिः । प्रायः किम् ? दाक्षिः ॥ ११३ ॥ राष्ट्रक्षत्रियात् सरूपाद् राजाऽपत्ये द्रि रङ् । ६ । १ । ११४ ॥ १ दुसंज्ञकात् । दुरति च ‘मृद्धिर्यस्य स्त्ररेवादिः' (६-१-४) सूत्रेण मयति ।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५५६
दिखावट