( ३८४ ) हैमशब्दानुशासनस्य आश्चर्यं गम्ये यचयन्नयोरुपपदयोः सप्तमी स्यात् । चिश्रमाश्चर्यं यच्च यत्र वा तत्रभवान् अकल्प्यं सेवेत ॥१९॥ शेषे भविष्यन्ती, अयदौ । ५ । ४ । २० ।। यचयनभ्यामन्यस्मिन्नुपपदे चित्रे गम्ये भविष्यन्ती स्यात्, न तु यदिशब्दे । चित्रमाश्चर्यसन्धो नाम गिरिंमाणे क्ष्यति । शेष इति किम् ? यचयत्रयोः पूर्वेण सप्तस्येव। अथदाविति किम् ? चित्रं यदि स भुञ्जीत ॥ २० ॥ सप्तम्युताऽप्योबढे। ५ । ४ । २१ । । बाढार्थयोरुताप्योरुपपदयोः सप्तमी स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ॥ २१ ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ । ५। ४ । २२ ।। अलमोऽर्थे शक्तो यत्र सम्भावनं, तस्मिन् गम्येऽलमर्था र्थस्याऽपयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अल मर्थं इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तश्चत्रो धर्म करिष्यति ||२२॥ | अयदि श्रद्धधातौ नवा । ५ । ३ । २३ ॥ संभावनाऽर्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात्, न तु यच्छब्दे । श्रद्दधे, संभावयामि भुञ्जीत भवान् । पक्षे , भोक्ष्यते, अभुङ्क्त, अभुक्त वा । अयदीति किम् ? सम्भावयामि यद् भुञ्जीत भवान् । अद्धाधताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् /२४ ।। सतीच्छाऽर्थात् । ५ । ४ । २४ ।।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५२४
दिखावट