सामग्री पर जाएँ

पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४२ ) हैमशब्दानुशासनस्य रात्रौ भूतार्थवृत्तेर्वसतेरातनी स्यात्, स चेदथ यस्य रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्त्याऽस्वप्तरि कर्तरि स्यात् । अद्यतनेनैवान्ययासेनावच्छिन्ने अद्यतने चेत् प्रयो गोऽस्ति नाद्यतनान्तरे । अनुस्रवात्सम् । रात्र्यऽन्ययामे तु मुहूर्तमपि स्वापेऽसुत्रावसमिति ॥ ६ ॥ अनद्यतने ह्यस्तनी । ५ । २ । ७ । आ न्याच्या उत्थानादन्याय्यात् च संवेशनदहरुभयतः, सार्द्धरात्रं वाऽद्यतनः, तस्मिन्सति भूतार्थाद् धातोर्युस्तनी स्यात् । अकरोत् ॥ ७ ॥ ख्याते दृश्ये । ५। २ । ८ । लोकविज्ञाते प्रयोक्तुं शक्यदर्शने भूतानद्यतऽर्थे वर्त मानाद् धातोर्घम्तनी स्यात् । अरुणत् सिद्धराजs वन्तीम् । ख्यात इति किम् ? चकार कटम् । श्य इति किम् ? जघान कंसं किल वासुदेवः ॥ ८ ॥ अयदि स्मृत्यर्थं भविष्यन्ती । ५। २ । ९ । स्मृत्यर्थं धातावुपपदे भूतानद्यतनार्थवृत्तेर्धातोर्भविध्य न्ती स्थात्, अययोगे । स्मरसि साधो ! स्वर्गे स्थास्यामः ? अयीति किम् ? अभिजानासि मित्र ! यत् कलिङ्गेष्व वसाम ? ॥ ९ ॥ व काङ्क्षायाम् । ५ । २। १० । १ अनन्तर गताया रात्रेर्यामद्वयादर्वाग्रे याबदारासिन्या रात्रे प्रथम यामद्वयम्, दिवसश्च सकल मोऽद्यतन काल इति तात्पर्यम् । ३ यच्छन्दे उपपदे भविष्यन्तो न स्यादित्यर्थं ।