( २७० ) हैमशब्दानुशासनस्य हकः । ४ । २ । १०० ।। हाको व्यञ्जनादौ शित्यविति आत इव स्यात् । जहितः, जहीतः ॥ १०० ॥ आ च हौ । ४ । २ । १०१ । हको हौ आत् इश्च वा स्यात् । जहाहि, जहिहि, जहीहि ।। १०१ ।। यि लुक् । ४ । २ । १०२ । । यादौ शिति हाक आ लुक् स्यात् । जह्यात् ॥१०२॥ ओतः श्ये । ४ । २ । १०३ । धातोरोतः श्ये लुक् स्यात् । अवद्यति । ऽय इति किम् ? गौरिवचरति गचति ।। १०३ ॥ जा ज्ञा-जनोऽत्यादौ । ४ । २ । १०४।। ज्ञाजनोः शिति जाः स्यात्, नत्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ? ज्ञाति । जञ्जन्ति ॥ १०४,॥ प्बादेर्हस्वः । ४ । २ । १०५ । । स्वादेः शिति अत्यादौ हस्वः स्यात् । पुनाति, लुना ति । प्वादेरिति किम् ? त्रीणाति ।। १०९ ।। गम्इष-यमः छः । ४ । २ । १०६ ।। एषां शित्यत्यादौ छः स्यात् । गच्छति, इच्छति, यच्छति, आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ॥ १०९ ॥ १ जाति जञ्जन्ति इति रुपयुग्म झ|-जनचेंडुपि वैद्यम् ।
पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४०२
दिखावट