( २१२ ) हैमशब्दनुशासनस्य आरमति, परिरमति ॥ १०५ ।। वोपात् । ३ । ३ । १०६ । उपाद् रमेः कर्तरि परस्मैपदं वा स्यात्। भार्यादुपरमति, उपरमते वा ॥ १०६ ।। अणिगि प्रणिकर्तुकानाप्यात् णिगः। ३।३।१०७।। अणिगवस्थायां यः प्रणिकतृकोऽकर्मकश्च धातुस्त- स्मात् णिगन्तान् कर्तरि परस्मैपदं स्यात् । आसयति चै त्रम् । अणिगीति किम् ? स्वयमेवरोहयमाणं गजं प्रयु अक्ते आरोहयते । अणिगिति गकारः किम् ? चेतयमानं प्रयुड ते चेतयते । माणिकर्तृकादिति किम् ? शोषयते श्रीहीन् आतपः। अनाप्यादिति किम्? कटं कारयते ॥१०० चल्याहारार्थंडूबुध-युध-शु-दुस्-नश जनः । ३ । ३ । १०८ । चल्याहारार्थभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् । चलयति, कम्पयति, भोजयति. अश यति चैत्रमन्नम्, सूत्रमध्यापयति शिष्यम् , बोधयति पङ्क रविः, योधयति काष्ठानि, प्रवयति राज्यम् - दोघयत्ययः, ॥ स्त्रावयति तैलम्, नाशयति पापम् , जनयति पुष्यम् १०८॥ इत्याचार्यं श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधा नस्वोपज्ञशब्दानुशासनलघुवृतौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः । ३ । ३ । | ००७०-== ==
- इंगित “ (३-३-९५ पृ० २१० ) इति सूत्रोisऽमनेपदस्य
बाधकमिदम् ।