सामग्री पर जाएँ

पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१० ) हैभशब्दानुशासनस्य परिमुहऽऽयसाऽऽयसपा-धे-वद-वस-दमTऽद-रुच नृतः फलवति । ३ । ३ । १४ । प्रधानफलवति कवेरि एभ्यो विवक्षितेभ्यो णिग न्तेभ्य आत्मनेपदं स्यात्। परिमोहयते , आयास चैत्रम् यते सर्प, आयासयते मैन्नम्, पाययते वड्डम्, धरपयते शिशुम्, वादयते वडम्, वासयते पान्थम् उद्धते अश्वम् , औद्यते चैत्रेण, रोचयते मैत्रम् , नर्तयते नटम् ॥ ९४ ॥ ई-गितः । ३ । ३ । ९५ ।। ईदितो गितश्च धातोः फलचाति कर्तर्यात्मनेपदं स्यात् । यजते कुरुते । फलवतीत्येव ? यजन्ति कुर्वन्ति ॥ ९५ ॥ ज्ञोऽनुपसर्गात् । ३ । । ९६ । अतः फलचति कर्तर्यात्मनेपदं स्यात्। गां जानते । फलवतीत्येव ? परस्थ गां जानति । ९६ ।। वदोऽपात् । ३ । ३ । ९७ । अतः फलवति कर्तर्यात्मनेपदं स्यात् । एकान्तमपच दते । फलवतीत्येव ? अपवदति परं स्वभावात् ॥ ९७ ॥ समुदाडो यमेरग्रन्थे । ३ । ३ । ९८ ।। एभ्यः परा यसैरग्रन्थविषये फलवत्कर्तर्यात्मनेपदं स्यात् । संयच्छते त्रीहीन् . उयच्छते भारम् - आयच्छते भारम् । अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति। फलवतीत्येव ? संयच्छति ॥ ९८॥ १ अबद भक्षणे इत्यस्य णिगन्तं रूपम् । केचिद् अदधातनं मन्यन्ते । आमनेपदम् । २ वैश्चकग्रन्थे उद्यम करोति । विक्सािग्रन्थमववोडुमिच्छतीत्यर्थः ।